अध्यायः 115

युधिष्ठिरेण गङ्गासागरसङ्गमादितीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति तत्तत्तीर्थाश्रममहिमानुवर्णनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय ।
आनुपूर्व्येण सर्वाणि जगामायतनान्यथ ॥
स सागरं समासाद्य गङ्गायाः संगमे नृप ।
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥
ततः समुद्रतीरेण जगाम वसुधाधिपः ।
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥
लोमश उवाच ।
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी ।
यत्रायजत धर्मोपि देवाञ्शरणमेत्य वै ॥
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् ।
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥
समेन देवयानेन पथा स्वर्गमुपेयुषः ।
अत्रवै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे ।
पशुमादाय राजेन्द्र भागोयमिति चाब्रवीत् ॥
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ ।
मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः ॥
`स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः ।
यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर' ॥
इतिकल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् ।
इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा ॥
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् ।
तत्रानुवंशो रुद्रस्यतं निबोध युधिष्ठिर ॥
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् ।
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥
इमां गाथामत्र गायन्नपः स्पृशति यो नरः ।
देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते ॥
वैशंपायन उवाच ।
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा ।
अवतीर्य महाभागास्तर्पयांचक्रिरे पितृन् ॥
युधिष्ठिर उवाच ।
उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात् ।
मानुषादस्मि विषयादपेतः पश्य लोमश ॥
सर्वाल्लोँकान्प्रपश्यामि प्रसादात्तव सुव्रत ।
वैखानसानां जपतामेष शब्दो महात्मनाम् ॥
लोमश उवाच ।
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर ।
यत्रध्वनिं शृणोष्येनं तूष्णीमास्स्व विशांपते ॥
एतत्स्वयंभुवो राजन्वनं दिव्यं प्रकाशते ।
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान् ॥
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने ।
सपर्वतवनोद्देशा दक्षिणार्थे स्वयंभुवा ॥
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा ।
उवाच चापि कुपिता लोकश्वरमिदं प्रभुम् ॥
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि ।
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः ।
प्रसादयांबभूवाथ ततो भूमिं विशांपते ॥
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव ।
पुनरुन्नह्य सलिलाद्देदीरूपास्थिता बभौ ॥
सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा ।
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥
सैषा सागरमास्राद्य राजन्वेदी समाश्रिता ।
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम् ॥
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्य ।
स्पृष्टा हि मर्त्येन ततः समुद्र- मेषा वेदी प्रविशत्याजमीढ ॥
ओंनमो विश्वगुप्ताय नमो विश्वपराय ते ।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ॥
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः ।
एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाऽधिरोह ॥
अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः ।
एवं ब्रुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥
अन्यथा हि कुरुश्रेष्ठ देवयोनिरपांपतिः ।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः ॥
वैशंपायन उवाच ।
ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत् ।
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥

3-115-5 उत्तरंतीरं वैतरण्याः ॥ 3-115-8 मा परस्वमभिद्रोग्धा परभागस्य नाशं मादुर्वित्यर्थः ॥ 3-115-12 अयातयामं तात्कालिकम् ॥ 3-115-27 समुद्रप्रार्थनामन््रमाह ओंनम इति । विश्वं गुप्तं लीनमस्मिन् प्रलये इति विश्वगुप्तः । विश्वस्मात्पराय श्रेष्ठाय विष्णवे इत्यर्थः । लवणाम्भसि क्षारोदके ॥ 3-115-30 देवयोनिः देवस्तानम् ॥ 3-115-31 युधिष्ठिरः सागरगामचच्छदिति क. ध. पाठः ॥