अध्यायः 116

अकृतव्रणएन मुनिना युधिष्ठिरंप्ति परशुरामचरित्रकीर्तनारम्भः ॥ 1 ॥ ऋचीकेन भृगुसुतेन दिव्याश्वसहस्रशुल्कदानेन गाधिकन्यापरिणयनम् ॥ 2 ॥ गाधिसुतया सत्यवत्या भूगुप्रसादाज्जमदग्निनामकतवयोत्पादनम् ॥ 3 ॥

वैशंपायन उवाच ।
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ।
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥
लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान् ।
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान् ॥
तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः ।
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥
कदा नु रामो भगवांस्तापसो दर्शयिष्यति ।
तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम् ॥
अकृतव्रण उवाच ।
आयानेवासि विदितो रामस्य विदितात्मनः ।
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः ।
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी ॥
`ततो द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम्' ।
युधिष्ठिर उवाच ।
भवाननुगतो रामं जामदग्न्यं महाबलम् ।
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥
स भवान्कथयत्वद्य यथा रामेण निर्जिताः ।
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥
अकृतव्रण उवाच ।
[हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
भृगूणां राजशार्दूल वंशे जातस्य भारत ॥
रामस्य जामदग्न्यस्य चरितं देवसंमितम् ।
हैहयाधिपतेश्चैव कार्तवीर्यस् भारत ॥
रामेण चार्जुनो नाम हैहयाधिपतिर्हतिः ।
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव ॥
दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा ।
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते ॥
अव्घाहतगतिश्चैव रथस्तस्य महात्मनः ।
रथेन तेन तु सदावरदानेन वीर्यवान् ॥
ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः ।
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः ॥
ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः । देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम् ।
भगवन्भूतरार्थमर्जुनं जहि वै प्रभो ॥
विमानेन च दिव्येन हैहयाधिपतिः प्रभुः ।
शचीसहायं क्रीडन्तं धर्षयामास वासवम् ॥
ततस्तु भगवान्देवः शक्रेण सहितस्तदा ।
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत ॥
यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम् । संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः ।
जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् ॥
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः ।] कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः ।
गाधीति विश्रुतो लोके वनवासं जगाम ह ॥
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा ।
ऋचीको भार्गवस्तां च वरयामास भारत ॥
तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम् ।
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् ॥
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम ॥
न चापि भगवान्वाच्योदीयतामिति भार्गव ।
देया मे दुहिता चैव त्वद्विधाय महात्मने ॥
ऋचीक उवाच ।
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते ॥
`गाधिरुवाच ।
ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे' ॥
अकृतव्रण उवाच ।
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् । एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम् ॥
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा ।
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा ।
ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा ॥
लब्धं हयसहस्रं तु तां च दृष्ट्वा दिवौकसः ।
`विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन्' ॥
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः ।
यथाकामं यथाजोषं तया रेमे सुमध्यया ॥
तं विवाहे कृतेराजन्सभार्यमवलोककः ।
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥
भार्यापती तमासीनं भृगुं सुरगणार्चितम् ।
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् ।
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥
सा वै प्रसादयाभास तं गुरुं पुत्रकारणात् ।
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥
भृगुरुवाच ।
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै ।
आलिङ्गेतां पृथग्वृक्षौ साऽस्वत्थं त्वमुदुम्बरम् ॥
चरुद्वयमिदं भद्रे जनन्याश्च तवैव च ।
विश्वमावर्तयित्वा तु मया यत्नेन साधितम् ॥
प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः ।
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ॥
ततः पुन स भगवान्काले बहुतिथे गते ।
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः ॥
अथोवाच महातेजा भृगुः सत्यवतीं श्नुषाम् ॥
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम् ।
विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता ॥
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् ।
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥
ततः प्रसादयामास श्वशुरं सा पुनःपुनः ।
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता ।
क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः ॥
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते ।
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च ।
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ । चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥

3-116-4 तापसान्दर्शयिष्यति । तेनैवाहंप्रसङ्गेनेति झ. पाठः ॥ 3-116-5 आयान् आगच्छन् ॥ 3-116-28 जन्याः वरपक्षीयाः । ततो गाधिः सुतां तस्मै ददौ कन्यां नृपोत्तमेति क. पाठः ॥ 3-116-29 लब्ध्वा हयसहस्रं तद्देवानां सन्निधौ तदेति क. पाठः ॥ 3-116-31 अवलोककः अवलोकनार्थी ॥ 3-116-36 विश्वंविराटपुरुषं आवर्तयित्वामुहुर्मुहुरनुसंधाय एतयोश्चर्वोर्भक्षणेन विश्वस्रष्टृतुल्यौ पुत्रौ भविष्यत इति भावः ॥ 3-116-37 ते उभे प्रति इत्युक्त्वेतीकारलोपः संधिर्वा आर्षः । आलिङ्गने अश्वत्थोदुम्बरयोः ॥