अध्यायः 119

युधिष्ठिरेण यात्राक्रमेण प्रभासतीर्थेप्रति गमनम् ॥ 1 ॥ तत्रतद्दिदृक्षया कृष्णबलभद्रादीनामागमनम् ॥ 2 ॥

वैशंपायन उवाच ।
गच्छन्स तीर्थानि महानुभावः । पुण्यानि रम्याणि ददर्श राजा ।
सर्वाणि वैप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरम्य ॥
स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः ।
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः ॥
तत्रापि चाप्लुत्य महानुभाव संतर्पयामास पितृडन्सुरांश्च ।
द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत् ॥
ततो विपाप्मा द्रविडेषु राज- न्समुद्रमासाद्य च लोकपुण्यम् ।
अगस्त्यतीर्थं च महापवित्रं- नारीतीर्थान्यथा वीरो ददर्श ॥
तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरशक्यम् ।
संपूज्यमानः परमर्षिसङ्घैः परां मुदं पाणअडुसुतः स लेभे ॥
स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च ।
संपूजयन्विक्रममर्जुनस्य रमे महीपालपतिः पृथिव्याम् ॥
ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य ।
हृष्टः सह भ्रातृभिरर्जुनस्य संकीर्तयामास गवां प्रदानम् ॥
स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् ।
क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श ॥
तत्रोदधेः कंचिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद ।
तप्तं सुरैरत्र तपः पुरस्ता- दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥
स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः ।
ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम् ॥
ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च ।
वैवस्वतादित्यधनेश्वराणा- मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥
भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव ।
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव ॥
सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये ।
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि ॥
तेषूपवासान्विबुधानुपोष्य दुत्त्वा च रत्नानि महान्ति राजा ।
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम ॥
स तेन तीरेण तु सागरस्य पुनः प्रयातः सह सोदरीयैः ।
द्विजैः पृथिव्यां प्रथितं महद्भि- स्तीर्थं प्रभासं समुपाजगाम ॥
तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च ।
संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन ॥
कस द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाऽभिषेकम् ।
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतांवरिष्ठः ॥
तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च ।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् ॥
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् ।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान् ॥
ततः स रामं च जनार्दनं च कार्ष्णि च साम्बं च शिनेश्च पौत्रम् ।
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः ॥
ते चापि सर्वान्प्रतिपूज्य पार्थां- स्तैः सत्कृताः पाण्डुसुतैस्तथैव ।
युधिष्ठिरं संपरिवार्य राज- न्नुपाविशन्देवगणा यथेन्द्रम् ॥
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः ।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम् ॥
श्रुत्वा तु ते तस्य वचः प्रतीता- स्तांश्चापि दृष्ट्वा सुकृशनतीव ।
नेत्रोद्भवं संमुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

3-119-2 वृत्तवान् सद्वृत्तः । पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात् । प्रशस्तां नाम नदीम् ॥ 3-119-4 नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशाद्यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ॥ 3-119-7 मम्बुधरोत्तमस्य समुद्रस्य ॥ 3-119-14 तीर्थेषु । उपवासान् पुमीपवासिनो विबुधान्पणअडितानुपोष्य वस्त्रैरावास् रत्नानि च तेभ्य एव दत्त्वा ॥ 3-119-20 कार्ज्जि प्रद्युम्नम् । पौत्रं सात्यकिम् ॥