अध्यायः 121
सात्यकिना पाणअडवानपेक्षणेन स्वैरेव धार्तराष्ट्रादिहननपूर्वकं
पाण्डवानामावनवाससमापनमभिमन्यो राज्येऽभिषच नोक्तिः ॥ 1 ॥ कृष्णेन
सात्यकिंप्रतिपाण्डवानां परबाहुबलैकानुपजीवित्वादिगुणकथनपूर्वकं तन्निपेधनम् ॥ 2 ॥
न राम कालः परिदेवनाय
यदुत्तरं त्वत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं
युधिष्ठिरो यद्यपि नाह किंचित् ॥
ये नाथवन्तोऽद्य भवन्ति लोके
ते नात्मना कर्म समारन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः
शैब्यादयो राम यथा ययातेः ॥
येषां तथा राम समारभन्ते
कार्याणि नाथाः स्वमतेन लोके ।
रते नाथवन्तः पुरुषप्रवीरा
नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥
कस्मादिमौ रामजनार्दनौ च
प्रद्युम्नसाम्बौ च मया समेतौ ।
वसन्त्यरण्ये सह सोदरीयै-
स्त्रैलोक्यनाथानभिगम्य पार्थाः ॥
निर्यातु साध्यद्य दशार्हसेना
प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः
सबान्धवो वृष्णिबलाभिभूतः ॥
त्वं ह्येव कोपात्पृथिवीमपीमां
संवेष्टयेस्तिष्ठतु शार्ह्गधन्वा ।
स धार्तराष्ट्रं जहि सानुबन्धं
वृत्रं यथा देवपतिर्महेन्द्रः ॥
भ्राता च मे यः स सखा गुरुश्च
जनार्दनस्यात्मसमश्च पार्थः ।
तदर्थमेको हि य उद्यमन्वै
करोति कर्णोऽस्त्रमवारणीयम् ॥
[यदर्थमैच्छन्मनुजाः सुपुत्रं
शिष्यं गुरुं चाप्रतिकूलवादम् ।
यदर्थमभ्युद्यतमुत्तमं त-
त्करोति कर्माग्र्यमपारणीयम् ॥]
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै-
र्विहत्य सर्वाणइ रणेऽभिभूय ।
कायाच्छिरः सर्पविषाग्निकल्पैः
शरोत्तमैरुन्मथिताऽस्मि राम ॥
खङ्गेन चाहं निशितेन सङ्ख्ये
कायाच्छिरस्तस्य बलात्प्रमत्य ।
ततोऽस् सर्वाननुगान्हनिष्ये
दुर्योधनं चापि कुरूश्च सर्वान् ॥
आत्तायुधं मामिह रौहिणएय
पश्यन्तु भैमा युधि जातहर्षाः ।
निघ्नन्तमेकं कुरुयोधमुख्या-
नग्निं महाकक्षमिवान्तकाले ॥
प्रद्युम्नमुक्तान्निशितान्न शक्ताः ।
सोढुं कृपद्रोणविकर्णकर्णाः ।
जानासि पीर्यं च तवात्मजस्य
कार्ष्णिर्भवत्येव यथा रणस्थः ॥
साम्बः ससूतं सरथं भुजाभ्यां
दुःशासनं शास्तु बलात्प्रमथ्य ।
न विद्यतेजाम्बवतीसुतस्य
रणेऽविषह्यं हि रणोत्कटस्य ॥
एतेन बालेन हि शम्बरस्य
दैत्यस्य सैन्यं सहसा प्रणुन्नम् ।
`हतः स पापो युधि केवलेन
युद्धेऽद्वितीयो हरितुल्यवीर्यः' ॥
वृत्तोरुरत्यायतपीनबाहु-
रेतेन सङ्ख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य महारथस्य
रणे समक्षं रथमभ्युदीयात् ॥
यथा प्रविश्यान्तरमन्तकस्य
काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य सङ्ख्ये
को नाम जीवन्पुनराव्रजेच्च ॥
द्रोणं कच भीष्मं च महारथौ तौ
सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणइ सैन्यानि च वासुदेवः
प्रधक्ष्यते सायकवह्निजालैः ॥
किंनाम लोकेषु विषह्ममस्ति-
कृष्णस्य सर्वेषु सदेवकेषु ।
आत्तायुधस्योत्तमबाणपाणे-
श्चक्रायुधस्याप्रतिमस्य युद्धे ॥
ततो निरुद्धोऽप्यसिचर्मपाणि-
र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु
कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु ॥
गदोल्मुकौ बाहुकभानुनीथाः
शूरश्र सङ्ख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ
कुलोचितं विप्रथयन्तु कर्म ॥
सवृष्णिभोजान्धकयोधमुख्या
समागता सात्वतशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्रा-
न्लोके यशः स्फीतमुपाकरोतु ॥
ततोऽभिमन्युः पृथिवीं प्रशास्तु
यावद्व्रतं धर्मभृतांवरिष्ठः ।
युधिष्ठिरः पारयते महात्मा
द्यूते यथोक्तं कुरुसत्तमेन ॥
अस्मत्प्रमुक्तैर्विशिखैर्जितारि-
स्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रा-
मेतद्धि नः कृत्यतमं यशस्यम् ॥
वासुदेव उवाच ।
असंशयं माधव सत्यमेत-
द्गृह्णीम ते वाक्यमदीनसत्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं
नेच्छेत्कुरूणामृषभः कथंचित् ॥
न ह्येष कामान्न भयान्न लोभा-
द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ च
तथैव कृष्णा द्रुपदात्मजेयम् ॥
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां
वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे-
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥
यदा तु पाञ्चालपतिर्महात्मा
सकेकयश्चेदिपतिर्वयं च ।
युध्येम विक्रम्य रणे समेता-
स्तदैव सर्वे रिपवो हि न स्युः ॥
युधिष्ठिर उवाच ।
नेदं चित्रं माधव यद्ब्रवीषि
सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः
कृष्णं च वेदाहमथो यथावत् ॥
यदैव कालं पुरुषप्रवीरो
वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर
सुयोधनं जेष्यसि केशवश्च ॥
प्रतिप्रयान्त्वद्य दशार्हवीरा
दृष्टोस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया
द्रष्टाऽस्मि भूयः सुखिनः समेतान् ॥
वैशंपायन उवाच ।
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य
वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मु-
स्ते चापि तीर्थान्यमुसंविचेरुः ॥
विसृज्य वृष्णीननु धर्मराजौ
विदर्भराजोपचितां सुतीर्थाम् ।
जगाम पुण्यां सरितं पयोष्णीं
सभ्रातृभृत्यः सह लोमशेन ॥
सुतेन सोमेन विमिश्रतोयां
पयः पयोष्णीं प्रति सोध्युवास ।
द्विजातिमुख्यैर्मुदितैर्महात्मा
संस्तूयमानः स्तुतिभिर्वराभिः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥
3-121-2 शैव्यादय इति स्वार्थे ष्यञ् ॥ 3-121-7 स पार्थोपि
तिष्ठत्विति पूर्वेणान्वयः ॥ 3-121-8 यदर्थं शत्रुवधार्थम् । तत्
सुपुत्रादिकम् । अस्माकमस्तीति शेषः ॥ 3-121-11 भैमा भीमकर्मकर्तारो भीमवंशजा
वा ॥ 3-121-14 एतेन प्रद्युम्नेन ॥ 3-121-33 सुतेन अभिषुतेन । यज्ञे
सोमपानतुल्यं तज्जलपानमित्यर्थः । पयोष्णीं प्रति पयोष्ण्यां पयोमात्रमध्युवासं
भक्षितवान् ॥