अध्यायः 125

च्यवनस्य यौवनलाभश्रवणहृष्टेन शर्यातिना तदाश्रमाभिगमनम् ॥ 1 ॥ च्यवनेन शर्यातेर्याजनम् ॥ 2 ॥ तत्र च्यवनेनाश्विभ्यां स्वप्रतिश्रुतसोमरसदानोद्यमे इन्द्रेण तस्य हननाय बाहुना वज्रोद्यमनम् ॥ 3 ॥ तद्बाहुसंस्तग्भनपूर्वकं च्यवनसृष्टया कृत्यया शक्रंप्रत्यभिसरणम् ॥ 4 ॥

लोमश उवाच ।
ततः श्रुत्वा तु शर्यातिर्वयस्थं च्यवनं कृतम् ।
सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव ।
रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।
उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः ॥
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् ।
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥
ततः परमसंहृष्टः शर्यातिरवनीपतिः ।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥
तत्रैनं च्यवनो राजन्याजयामास भार्गवः ।
अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।
तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम् ॥
इन्द्र उवाच ।
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ।
भिषजौ दिवि देवानां कर्मणा तेन नार्हतः ॥
च्यवन उवाच ।
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ ।
यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम् ॥
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥
इन्द्र उवाच ।
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥
लोमश उवाच ।
एतदेव तदा वाक्यमाम्रेडयति वासवे ।
अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः ॥
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥
आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ।
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्यस भार्गवः ।
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः ।
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥
तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् ।
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥
ततः कृत्याऽथ संजज्ञे मुनेस्तस्य तपोबलात् ।
मदो नाम महावीर्यो बृहत्कायो महासुरः ॥
शरीरं यस् निर्देष्टुमशक्यं तु सुरासुरैः ।
तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत् ॥
हनुरेका स्थिता त्वस्य भूमावेका दिवं गता ।
चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम् ॥
इतरे तस्य दशना बभूवुर्दशयोजनाः ।
प्रासादशिखराकाराः शूलाग्रसमदर्शनाः ॥
बाहू परिघसंकाशावायतावयुतं समौ ।
नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसंनिभम् ॥
लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया ।
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् । महता घोररूपेण लोकाञ्शब्देन नादयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि प़्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

3-125-1 वयस्थं युवानम् ॥ 3-125-4 संभारान् यज्ञोपकरणानि ॥ 3-125-8 ग्रहं सोमस्य । गृह्णानं तयोरर्थे ॥ 3-125-11 सवं सोमम् ॥ 3-125-12 भैषज्यात्कर्मणो निन्द्याविति क. पाठः ॥ 3-125-13 आम्रेड्यति पुनःपुनरावर्तयति ॥