अध्यायः 126
इन्द्राभिष्टुतेन च्यवनेन तस्मिन्स्वप्रयुक्तकृत्यायास्ततो
विनिवर्त्य स्र्यादिषु विभजनम् ॥ 1 ॥ लोमशेन सुकम्योपाख्यानसमापनपूर्वकं
युधिष्ठिराय नानातीर्थमहिमानुवर्णनम् ॥ 2 ॥
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥
भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः ।
ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः ॥
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥
न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥
सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया ।
`तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि' ॥
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ।
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ॥
अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ।
तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।
स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरंदरम् ॥
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् ।
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥
तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना ।
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥
विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः ।
सुकन्यया सहारण्ये विजहारानुकूलया ॥
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते ।
अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय ॥
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत ।
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥
पुष्करेषु महाराज सर्वेषु च जलं स्पृश ।
स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ॥
संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च ।
अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः ।
अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ॥
आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम् ।
सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ॥
चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर ।
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ।
वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥
शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च ।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥
शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः ।
नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप ।
स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ॥
इह नित्याश्रया देवाः पितरश्च महर्षिभिः ।
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥
इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते ।
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ॥
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर ।
यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ॥
इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः ।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥
एषा सा यमुना राजन्महर्षिगणसेविता ।
नानायज्ञचिता राजन्पुण्या पापभयापहा ॥
अत्रराजा महेष्वासो मांधाताऽयजत स्वयम् ।
साहदेविश्च कौन्तेय सोमको ददतांवरः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥
3-126-2 सृक्किणी गल्लगर्भौ ॥ 3-126-3 वचो ब्रह्मन्ब्रवीमि
ते इति क. पाठः ॥ 3-126-15 संप्रति कलिद्वापरसंधावपि अत्रतीर्थे
त्रेताद्वापारसंधितुल्यः कालेस्ति । अत्रस्नातानां कलिस्पर्शो नास्तीति भावः ॥ 3-126-16 सदास्रोतः सदाप्रवाहयुक्तम् ॥ 3-126-18 त्रीणि सृङ्गाणीति त्रिकोणं
वाराणसीक्षेत्रम् । त्रीणि प्रस्रवणानीति च प्रयागम् । एतानि सर्वाणि
अनुपरिक्रम्य प्रदक्षिणीकृत्य ॥ 3-126-20 तेपुस्तपस्रक्रुः ॥ 3-126-26
साहदेविः सृञ्जयपुत्रस्य पुत्रः ॥