अध्यायः 128

सोमकनामकेन राज्ञा भार्याशतोद्बाहेपि ज्येष्ठायामेव जन्तुनामकैकापत्यजननम् ॥ 1 ॥ पिपीलिकादष्टसुतदुःखदर्शननिर्विण्णेन तेन राज्ञा ऋत्विजंप्रति बहुपुत्रोत्पादनोपायप्रश्नः ॥ 2 ॥ ऋत्विजा राजानंप्रति जन्तोः पशूकरणेन होमे तद्वपाघ्राणनेन भार्याशते पुत्रशतजननोक्तिः ॥ 3 ॥

युधिष्ठिर उवाच ।
कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः ।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥
लोमश उवाच ।
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः ।
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥
स वै यत्नेन महता तासु पुत्रं महीपतिः ।
कंचिन्नासादयामास कालेन महता ह्यपि ॥
कदाचित्तस् वृद्धस्य यतमानस्य धीमतः ।
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ॥
तं जातं मातरः सर्वाः परिवार्य समासते ।
सततं पृष्ठतः कृत्वा कामभोगान्विशांपते ॥
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि ।
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ॥
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।
प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ॥
तमार्तनादं सहसा शुश्राव स महीपतिः ।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥
ततः प्रस्थापयामास किमेतदिति पार्थिवः ।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥
सोमक उवाच ।
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो ।
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ॥
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम ।
यतमानासु सर्वासु किंनु दुःखमतः परम् ॥
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम ।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।
महता लघुना वाऽपि कर्मणा दुष्करेण वा ॥
ऋत्विगुवाच ।
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत् ।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥
सोमक उवाच ।
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत् ।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ॥
ऋत्विगुवाच ।
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥
वपार्या हूयमानायां धूममाघ्राय मातरः ।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

3-128-6 स्फिचि कठ्याम् ॥ 3-128-8 अमात्यपर्षदो मध्ये मन्त्रिसभान्तः ॥ 3-128-9 क्षत्ता दौवारिकः ॥ 3-128-19 जन्तुना पशुभूतेन ॥