अध्यायः 133

शिबिपरी7णार्थं श्येनीभूतेनेन्द्रेणानुद्रुतस्य कपोतरूपधारिणोऽग्नेः शिविंप्रति शरणागतिः ॥ 1 ॥ कपोतरिरक्षिषया राज्ञा श्येनानुमत्या स्वशरीरोत्कृत्तमांसस्य कपोतेन सह तुलारोपणम् ॥ 2 ॥ मांसापेक्षया कपोतस्य गौरवातिरेके राज्ञा स्वयमेव तुलारोहणम् ॥ 3 ॥ ततस्तुष्टाभ्यामिन्द्राग्निभ्यां तत्प्रशंसनपूर्वकं स्वलोकगमनम् ॥ 4 ॥

श्येन उवाच ।
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।
माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ॥
राजोवाच ।
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।
मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः ॥
एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।
अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ॥
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥
[यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् । शरणागतं च त्यजते तुल्यं तेषां हि पातकम्]
श्येन उवाच ।
आहारत्सर्वभूतानि संभवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते ।
विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ॥
प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति ।
रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ॥
बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत् ।
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥
विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ॥
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये ।
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥
राजोवाच ।
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।
सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ॥
तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे । न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम् ।
शरणैषिपरित्यागं कथं साध्विति मन्यसे ॥
आहारार्थं समारम्भस्तव चायं विहंगम ।
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥
गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ॥
श्येन उवाच ।
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।
भक्षयामि महाराज किं ममान्येन केचचित् ॥
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव ।
तमुत्सृज महीपाल कपोतमिममेव मे ॥
श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी ।
मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ॥
राजोवाच ।
राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः ।
कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ॥
यं वा कामयसे कामं श्येन सर्वं ददानि ते ।
विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ॥
येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम ।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥
श्येन उवाच ।
उशीनर कपोते ते यदि स्नेहो नराधिप ।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥
यदा समं कपोतेन तव मांसं नृपोत्तम ।
त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥
राजोवाच ।
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥
लेमश उवाच ।
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् ।
तुलयामास कौन्तेय कपोतेन समं विभो ॥
ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते ।
पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ॥
न विद्यते यदा मांसं कपोतेन समं धृतम् ।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥
श्येन उवाच ।
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।
जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ॥
यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते ।
एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ॥
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥
इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम् ।
प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ॥
उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी ।
विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ॥
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः ।
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥
तत्र वै सततं देवा मुनयश्च सनातनाः । दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

3-133-2 मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि इति झ. पाठः ॥ 3-133-20 कदलीस्कन्धमासजेति कदलीस्कन्धतुल्ये निःशारेऽस्मिन् धर्मे मा सज्जो भवेत्यर्थः ॥