अध्यायः 134

लोमशेन श्वेतकेतोराश्रमंगतं द्युधिष्ठिरंप्रति अष्टावक्रोपाख्यानकथधनारम्भः ॥ 1 ॥ धनार्जनाय जनकपुरं गतस्य कहोळस्य वन्दिना वादे विजित्य जले विनिमज्जनम् ॥ 2 ॥ तद्विदितवता तत्पुत्रेणाष्टावक्रेण श्वेतकेतुनासह जनकनगरंप्रति गमनम् ॥ 3 ॥

लोमश उवाच ।
यः कथ्यते मन्त्रविदग्र्यबुद्धि- रौद्दालकिः श्वेतकेतुः पृथिव्याम् ।
तस्याश्रमं पश्यत पाण्डवेया सदाफलैरुपपन्नं महीजैः ॥
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।
वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥
अस्मिन्युगे ब्रह्मकृतां वरिष्ठा- वास्तां मुनी मातुलभागिनेयौ ।
अष्टावक्रश्चैव कहोलसूनु- रौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥
विदेहराजस् समीपतस्तौ घीरावुभौ मातुलभागिनेयौ ।
प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ ॥
उपास्स्व कौन्तेय सहानुजस्त्वं तस्याश्रमं पुण्यतमं प्रविश्य ।
अष्टावक्रं यस्य दौहित्रमाहु- र्योऽसौ वन्दिं जनकस्याथ यज्ञे । वादि विप्राग्न्यो बाल एवाभिगम्य वादे भङ्क्त्वा मज्जयामास नद्याम् ॥
युधिष्ठिर उवाच ।
कथंप्रभावः स बभूव विप्र- स्तथाभूतं यो निजग्राह वन्दिम् ।
`किंचाधिकृत्याथ तयोर्विवादो विदेहराजस् समीप आसीत्' ॥
अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥
लोमश उवाच ।
उद्दालकस्य नियतः शिष्य एको नाम्ना कहोळेति बभूव राजन् ।
शुश्रूषुराचार्यवशानुवर्ती दीर्घ कालं सोऽध्ययनं चकार ॥
तं वै विप्राः पर्यभवंस्तु शिखा- स्तं च ज्ञात्वा विप्रकारं गुरुः सः ।
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥
तस्यां गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच ।
सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥
उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।
यस्माद्वक्रं वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टधैव ॥
स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो मानवेषु ।
अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥
संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ ।
उवाच भर्तारमिदं रहोगता प्रसाद्य हीना वसुना धनार्थिनी ॥
कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे ।
नैवास्ति मे वसु किंचित्प्रदाता येंनाहमेतामापदं निस्तरेयम् ॥
उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।
स वै तदा वादविदा निगृह्य निमज्जितो वन्दिनेहाप्सु विप्रः ॥
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा ।
उवाच तां तत्रततः सुजात- मष्टवक्रे गूहितव्योऽयमर्थः ॥
ररक्ष सा चापि तमस् मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः ।
उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥
ततो वर्षे द्वादशे श्वेतकेतु- रष्टावक्रं पितुरङ्के निषण्णम् ।
अपाकर्षद्गृह्यपाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥
यत्तेनोकतं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।
गृहं गत्वा मातरं सोऽथ विग्रः पप्रच्छेदं क्व नु तातो ममेति ॥
ततः सुजाता परमार्तरूपा शापाद्भीता तत्त्वमस्याचचक्षे ।
तद्वै तत्त्वंसर्वमाज्ञाय रात्रा- वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।
श्रोष्यावोऽत्र ब्राह्मणानां विवाद- मन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥
विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जमकस्य राज्ञः ।
अष्टावक्रः पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

3-134-4 वन्दिं वन्दिनम् । निजग्राहतुः ॥ 3-134-9 तं वै विप्रः पर्यचरत्सशिष्यस्तां च ज्ञात्वा परिचर्यां गुरुः सः । इति झ पाठः ॥ 3-134-11 यस्मात्कुक्षौ वर्तमान इति झ. पाठः ॥ 3-134-14 वसुकिंचित्प्रजातेति झ. पाठः । प्रजाता प्रसूता ॥