अध्यायः 135

श्वेतकेतुना सह जनकयज्ञशालां विविक्षोरष्टावक्रस्य द्वारपालेन निरोधनम् ॥ 1 ॥ अष्ठावक्रद्वारपालयोः संवादः ॥ 2 ॥ स्वप्रश्नस्योत्तरदानतुष्टेन राज्ञा सभाप्रवेशाभुमतिः ॥ 3 ॥

अष्टावक्र उवाच ।
अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः ।
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥
राजोवाच ।
पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व ।
न पावको विद्यते वै लघीया- निन्द्रोपि नित्यं नमते ब्राह्मणानाम् ॥
लोमश उवाच ।
`स एवमुक्तो मातुलेनैव सार्धं यथेष्टमार्गो यज्ञनिवेशनं तत् ।
संप्राप्य धर्मेण निवारितः सन् द्वारि द्वाःस्थं वाक्यमिदं बभाषे ॥'
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात कौतूहलं बलवद्वै विवृद्धम् ।
आवां प्राप्तावतिथी संप्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् ॥
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू ।
न वै क्रुध्यो वन्दिना चोत्तमेन संयोजय द्वारपाल क्षणेन ॥
द्वारपाल उवाच ।
वन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम् ।
न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ॥
अष्टावक्र उवाच ।
यद्यत्रवृद्धेषु कृतः प्रवेशो युक्तं मया द्वारपाल प्रवेष्टुम् ।
वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च ॥
शुश्रूषवश्चापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम् ।
न बाल इत्येव मन्तव्यमाहु- र्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥
द्वारपाल उवाच ।
सरस्वतीमीरय वेद जुष्टा- मेकाक्षरां बहुरूपां विराजम् ।
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभा वादसिद्धिः ॥
अष्टावक्र उवाच ।
न ज्ञायते कायवृद्ध्या विवृद्धि- र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः ।
ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः ॥
द्वारपाल उवाच ।
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः ।
न हि ज्ञातुमल्पकालेन शक्यं कस्माद्बालः स्थविर इव प्रभाषसे ॥
अष्टावक्र उवाच ।
न तेन स्थविरो भवति येनास्य पलितं शिरः ।
बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि ।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः ।
सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ॥
पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः ।
उताहो वाऽप्युच्चतां नीचतां वा तूष्णींभूतेष्वेव सर्वेष्वथाद्य ॥
द्वारपाल उवाच ।
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम् ।
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत् ॥
`एष राजा संश्रवणे स्थितस्ते स्तुह्येनं त्वं वचसा संस्कृतेन ।
स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किंचित्तवेष्टम्' ॥
अष्टावक्र उवाच ।
भोभो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम् ।
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात् ॥
विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः ।
त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि- र्जले सर्वान्मज्जयतीति नः श्रुतम् ॥
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्य वै कथयितुमागतोस्मि ।
क्वासौ वनदी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि ॥
राजोवाच ।
आशंससे वन्दिनं वै विजेतु- मविज्ञाय त्वं वाक्यबलं परस्य ।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥
आशंसमाना वन्दिनं वै बिजेतु- मविज्ञात्वा तु बलं वन्दिनोऽस्य ।
समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः ॥
आशानुबन्धो हि तवात्र यत्नः स वन्दिमासाद्यतथा विनश्यति ।
विज्ञानवन्तो निकृतास्तु तात कथं सदस्तर्तुमिदं समर्थः ॥
अष्टावक्र उवाच ।
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदन्यभीतः ।
समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम् ॥
राजोवाच ।
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः ।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥
अष्टावक्र उवाच ।
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि ।
तत्रिषष्टिशतारं वै चक्रं पातु सदागति ॥
राजोवाच ।
बडबे इव संयुक्ते श्येनपाते दिवौकसाम् ।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥
अष्टावक्र उवाच ।
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम् ।
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥
राजोवाच ।
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति ।
कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥
अष्टावक्र उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥
राजोवाच ।
न त्वां मन्ये मानुषं देवसत्व न त्वं बालः स्थविरः संमतो मे ।
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष विद्वन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

3-135-1 स्त्रियः पन्था वै पथिकस्य पन्था इति क. पाठः. अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः । असमेत्य समीपं अप्राप्य ॥ 3-135-5 ऐन्द्रद्युम्नेर्जनकस्य ॥ 3-135-7 चरितव्रताश्च तपःप्रभावेन निवेशनार्हाः इति क. ध. पाठः ॥ 3-135-8 ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः । निष्ठां निश्चयम् ॥ 3-135-9 वेद जानीते यदि तर्हि ईरय । जुष्टां मुनिसेविताम् । एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां तां एकाक्षराम् । बहुरूपां मन्त्रार्थवादादिरूपाम् । विराजं विशेषेण कर्मकाण्डादाधिवयेन राजमानाम् । अङ्गेति संबोधने ॥ 3-135-10 शाल्मलेरष्ठीला शाल्मलिफलान्तर्गतग्रन्थिः । सहि केवलतूलमयत्वान्निःसारः । अतो देहवृद्धिर्व्यर्था । अल्पकायः कृशः ॥ 3-135-13 अनूचानः साङ्गवेदाध्यायी ॥ 3-135-14 पुष्करमालिने स्वर्णमालाधारिणे ॥ 3-135-19 सम्राट् सार्वभौमः ॥ 3-135-21 ब्रह्माद्वैत इति झ. पाठः । ब्रह्माद्यं वै इति ध. पाठः ॥ 3-135-27 प्रधयो मासा राशयो वा । तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते । चक्रं पात्वस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः । केवलकालज्ञानस्यापुरुषार्थत्वात् । एवमन्यत्रापि विंधानं द्रष्टव्यम् ॥ 3-135-28 रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तेते । दिवौकसां देवानां मध्ये तयोः संबन्धिनं गर्भं को धत्ते । कस्य गर्भे ते उत्पद्येते कंच जनयत इत्यर्थः ॥ 3-135-32 वाक्प्रलापे वाचां प्रकृष्टे संलापे । वितराम्येष वन्दीति झ. पाठः । एष वन्दी दृश्यतामिति शेषः ॥