अध्यायः 141
					 लोमशचोदनया युधिष्ठिरेण कैलासादिगिरिप्रवेशः ॥ 1 ॥ 
					
					
						उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
						समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥
					 
					
						एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
						स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ॥
					 
					
						एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् ।
						समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥
					 
					
						एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम् ।
						अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ॥
					 
					
						श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
						यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ॥
					 
					
						अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः ।
						तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥
					 
					
						अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
						यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥
					 
					
						तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते ।
						यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥
					 
					
						तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
						दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥
					 
					
						कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।
						तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥
					 
					
						कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः ।
						यत्रदेवाः समायान्ति विशाला यत्र भारत ॥
					 
					
						असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः ।
						नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥
					 
					
						तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
						रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥
					 
					
						स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।
						गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ॥
					 
					
						मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च ।
						स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ॥
					 
					
						इन्द्रस्य जाम्बूनदपर्वताद्वै
							शृणोमि घोषं तव देवि गङ्गे ।
						
						गोपाययेमं सुभगे गिरिभ्यः
							सर्वाजमीढापचितं नरेन्द्रम् ॥
						
					 
					
						ददस्व शर्म प्रविविक्षतोऽस्य
							शैलानिमाञ्छैलसुते नृपस्य ।
						
						`शिवप्रदा सर्वसरित्प्रधाने
							स भ्रातृकस्येह युधिष्ठिरस्य' ।
						
						युधिष्ठिर उवाच । 
					 
					
						अपूर्वोऽयं संभ्रमो लोमशस्य
							कृष्णां च सर्वे रक्षत मा प्रमादः ।
						
						देशो ह्ययं दुर्गतमो मतोऽस्य
							तस्मात्परं शौचमिहाचरध्वम् ॥
						
						वैशंपायन उवाच । 
					 
					
						ततोऽब्रवीद्भीममुदारवीर्यं
							कृष्णां यत्तः पालय भीमसेन ।
						
						शून्येऽर्जुनेऽसन्निहिते च तात
							त्वामेव कृष्णा भजते भयेषु ॥
						
					 
					
						ततो महात्मां स यमौ समेत्य
							मूर्धन्युपाघ्राय विमृज्यगात्रे ।
						
						उवाच तौ बाष्पकलं स राजा
							मा बैष्टमागच्छतमप्रमत्तौ ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि
						एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥ 
					 3-141-1 कैलासं चापि पर्वतम् इति क. पाठः ॥ 3-141-2
						यत्राग्निर्नित्यमिध्यत इति त्रियोगिनारायणाख्यं हरिद्वारात् परतः स्थानमस्ति ॥ 3-141-11 विशाला वदरी ॥ 3-141-16 इन्द्रस्य इन्द्रसंबन्धिनः । जाम्बूनदं
						सुवर्णं तन्मयात्पर्वतान्मेरोः । आजमीढवंशे अपचितं पूजितं श्रेष्ठमित्यर्थः ॥ 3-141-17 ददश्व देहि ॥ 3-141-18 शौचं वाङ्यनःकायशुद्धिम् ॥ 3-141-20
						भैष्टमिति च्छेदः ॥