अध्यायः 142

भीमेन दुर्गमे गमनाक्षमतया युधिष्ठिरनिवारितानां द्रौपद्यादीनां वहनाङ्गीकारः ॥ 1 ॥ पथि कुलिन्दाधिपतिना सुबाहुना पूजितैर्युधिष्ठिरादिभिस्तस्यिन्भृत्यवर्गस्थापनपूर्वकमर्जुनदिदृक्षया गन्धमादनंप्रति प्रस्थानम् ॥ 2 ॥

युधिष्ठिर उवाच ।
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात् ।
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर ॥
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥
अथवा सहदेवेन धौम्येन च समं विभो ।
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥
त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः ।
अहं च नकुलश्चैव लोमशश्च महातपाः ॥
ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः ।
वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥
भीम उवाच ।
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥
तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः । गुडाकेशं महात्मानं संग्रामेष्वपलायिनम् ।
किं पुनः सहदेवं च मां च कृष्णां च भारत ॥
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः ।
सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ॥
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च ॥
इयं चापि महाभागा राजपुत्री पतिव्रता ।
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥
तथैवसहदेवोऽयं सततं त्वामनुव्रतः ।
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥
अपिचात्र महाराज सव्यसाचिदिदृक्षया ।
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।
पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति ।
इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः ॥
युधिष्ठिर उवाच ।
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।
यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि ॥
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।
बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम् ॥
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥
वैशंपायन उवाच ।
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।
गमिष्यामि न संताप कार्यो मां प्रति भारत ॥
लोमश उवाच ।
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥
नकुलः सहदेवश्च भीमसेनश् पार्थिव ।
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥
वैशंपायन उवाच ।
एवं संभाषमाणास्ते सुबाहुविषयं महत् ।
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥
किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम् । हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ।
सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत ॥
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् ।
तत्र ते पूजितास्तेन सर्व एव सुखोपिताः ॥
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ।
इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा ॥
सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप ।
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः ॥
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः । ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

3-142-28 परिदाय रक्षार्थं समर्प्य ॥