अध्यायः 143

धनंजयादर्सनदुःखितेन युधिष्ठिरेण भीमंप्रति धनंजयप्रशंसनपूर्वकं तद्दर्शनाय गन्धमादनप्रवेशनिश्चयः ॥ 1 ॥

युधिष्ठिर उवाच ।
भीमसेनयमौ चोभौ पाञ्चालि च निबोधत ।
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥
दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम् ।
अशक्येऽपि व्रजामो यद्नंजयदिदृक्षया ॥
तन्मे दहति गात्राणि तूलराशिमिवानलः ।
यच्च वीरं न पश्यामि धनंजयमुपान्तिके ॥
तस्यादर्शनतप्तं मां सानुजं वनमास्थितम् ।
याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥
तीर्थानि चैव रम्याणि वनानि च सरांसि च ।
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥
पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनंजयम् ।
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।
न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥
कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम् ।
न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर ॥
चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ ।
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् ॥
यः स शक्रादनवरो वीर्येण च बलेन च ।
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥
`नारायणसमो युद्धे सत्यसन्धो दृढव्रतः ।
तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै' ॥
दुःखेन महताऽऽविष्टश्चिन्तयामि दिवानिशम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।
ऋजुमार्गप्रपन्नस्य शर्मदाता भयस्य च ॥
स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः ।
अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।
दाताऽभयस् बीभत्सुरमितात्मा महाहलः ॥
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥
रत्नानि यस्य वीर्येण दिव्यान्यासत्पुरा मम ।
बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः ॥
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम ।
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि ।
अजेयममितं युद्धे तं न पश्यामि फल्गुनम् ॥
संकर्षणं महावीर्यं त्वां च भीमापराजितम् ।
अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा ॥
यस् बाहुबले तुल्यः प्रभावे च पुरंदरः ।
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥
ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः ।
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥
विशाला बदरी यत्रनरनारायणाश्रमः ।
तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिसुत्तमम् ॥
कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम् ।
पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः ॥
नातप्ततपसा शक्यो गन्तुं देशो वृकोदर ।
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥
तत्र सर्वेगमिष्यामो भीमार्जुपदैषिणः ।
सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः ॥
मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान् ।
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥
ते वयं नियतात्मानः पर्वतं गन्धमादनम् । प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

3-143-1 भूतस्य प्राक्तनकर्मणः ॥ 3-143-4 परामर्शः केशेषु ग्रहणम् । तस्य दर्शनतृष्णं मामिति झ. पाठः ॥ 3-143-9 अप्रतिमानं नास्ति प्रतिमानं सादृश्यं यस् सोऽप्रतिमानस्तम् ॥ 3-143-10 प्रभिन्नं स्रवन्मदम् ॥ 3-143-11 अनवरोऽहीनः ॥ 3-143-16 अमितात्मा महामनाः ॥ 3-143-20 अमितमहिंसितं अजितमितियावत् ॥ 3-143-21 हे भीम ॥ 3-143-28 अनियतोऽशुचिः ॥