अध्यायः 010

धृतराष्ट्रेण दुर्योधनानुशासनं प्रार्थितेन व्यासेन तत्रागमिष्यन्तं मैत्रेयप्रति तत्प्रार्थनाविधानपूर्वकं स्वावासंप्रति गमनम् ॥ 1 ॥ तत्रागतेन मैत्रेयेण ऊर्वास्फालनपूर्वकं स्ववचनमनादृतवतो दुर्योधनस्य भीमसेनगदया तवोरुभेदो भूयादिति शापदानम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने ।
अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम् ।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि ।
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥
व्यास उवाच.
अयमायाति वै राजन्मैत्रेयो भगवानृषिः ।
अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया ॥
एष दुर्योधनं पुत्रं तव राजन्महानृषिः ।
अनुशास्ता यथान्यायं शमायास्य कुलस्य च ॥
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया ।
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत ।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम् प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले । कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ।
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः ।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥
मैत्रेय उवाच ।
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान् ।
यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने ॥
तं जटाजिनसंवीतं तपोवननिवासिनम् ।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम् ।
अनयं द्यूतरूपेण महाभयमुपस्थितम् ॥
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ॥
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति ।
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन ॥
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् ।
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन ।
तेन न भ्राजसे राजंस्तापसानां समागमे ॥
वैशंपायन उवाच ।
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् ।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः ॥
मैत्रेय उवाच ।
दुर्योधन महाबाहो निबोध वदतां वर ।
वचनं मे महाभाग ब्रुवतो यद्धितं तव ॥
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः ।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः ।
अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः ॥
तं भीमः समरस्लाघी बलेन बलिनां वरः ।
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥
पश्य दिग्विजये राजन्यथा भीमेन पातितः ।
जरासन्धो महेष्वासो नागायुतबलो युधि ॥
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः ।
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ॥
सर्वे नागायुतप्राणा वज्रसंहनना दृढः ।
सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः ॥
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् । हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः ।
कस्तान्युधि समासीत जरामरणवान्नरः ॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥
वैशंपायन उवाच ।
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते ।
ऊरुं करिकराकारं करेणाभिजघान तः ॥
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम् ।
नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् ।
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः ।
विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः ।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि ।
तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ॥
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् ।
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ॥
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः ।
प्रसादयामास मुनिं नैतदेवं भवेदिति ॥
मैत्रेय उवाच ।
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा ।
शायो न भविता तात विपरीते भविष्यति ॥
वैशंपायन उवाच ।
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा ।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥
मैत्रेय उवाच ।
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः ।
एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् । किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ॥

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि दशमोऽध्यायः ॥ 10 ॥

3-10-5 अनुशास्ता अनुशासिष्यति ॥ 3-10-6 अक्रियायां अकरणे । कार्यस्य अवश्यकर्तव्यस्य ॥ 3-10-11 यदृच्छया दैवात् ॥ 3-10-15 औपयिकं योग्यम् ॥ 3-10-16 मेढीभूतः खलदामस्तम्भीभूतः । प्रग्रहे अनुग्रहे ॥ 3-10-18 व्यावृत् अभिमुखीभूयेत्यर्थः ॥ 3-10-22 पशुमारेण पशुमारणप्रकारेण ॥ 3-10-24 विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च ॥ 3-10-25 वज्रसंहननाः वज्रकायाः ॥