अध्यायः 147
भीमसेनस्मरणमात्रसन्निहितेन घटोत्कचेन दुर्गमे पथि द्रौपद्या
वहनम् ॥ 1 ॥ तदनुचरै राक्षसैः पाण्डवानां विप्राणं च वहनम् ॥ 2 ॥
सर्वैर्नरनारायणाश्रममेत्य तत्र सुखेन निवासः ॥ 3 ॥
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः ।
भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम् ॥
तव भीम सुतेनाहं नीतो भीमपराक्रम ।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥
वैशंपायन उवाच ।
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।
`चिन्तयामास बलवान्महाबलपराक्रमम् ॥
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ।
कृताञ्जलिरुषातिष्ठदभिवाद्याथ पाण्डवान् ।
ब्राह्मणांश्च महाबाहुः स च तैरमिनन्दितः ॥
उवाच भीमसेनं स पितरं सत्यविक्रमः ॥
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः ।
आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम् ॥
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ।
चिन्ताया समनप्राप्तमित्युवाच वृकोदरः' ॥
हैडिम्बेय परिश्रान्ता तव माताऽपराजिता ।
त्वं कच कामगमस्तात बलवान्वह तां खग ॥
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥
घटोत्कच उवाच ।
धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा ।
एकोप्यहमलं वोढुं किमुताद्य सहायवान् ॥
[अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः ।
सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहिताऽनघ ।
`मन्दंमन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम्' ॥
वैश्पायन उवाच ।
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।
स्वेनैव स प्रभावेण द्वीतीय इव भास्करः ॥
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।
नियोगाद्राक्षसेनद्रस्य जग्मुर्भीमपराक्रमाः ॥
एवं सुरमणीयानि वनान्युपवनानि च ।
आलोकयन्तस्ते जग्मुर्विशालां बदरीमनु ॥
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः ।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥
देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान् ।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥
विद्याघरमाकीर्णआन्युतान्वानरकिन्नरैः ।
तथा किंपुरुषैश्चैव गन्धर्वैश्चसमन्ततः ॥
मयूरैश्चभरैश्चैव हरिणै रुरुभिस्तथा ।
वराहैर्गवयैश्चैव महिषैश्च समावृतान् ॥
नदीजालसमाकीर्णान्नानापक्षियुतान्बहून् ।
नानाविधमृगैर्जुष्टांश्चारणैश्चोपशोभितान् ।
समदैश्च्यशि विहगैः उपैरन्वितांस्तथा ॥
तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि ।
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् ।
स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् ।
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् ।
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥
अदंशमशके देशे बहुमूलफलोदके ।
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥
सुभूमिभागविशदे स्वभावविदिते शुभे ।
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥
तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् ।
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् ।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥
शरण्यं सर्वभूतानां ब्रह्मघोपनिनादितम् ।
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् ।
श्रिया युतमनिर्देश्यं देववर्योपशोभितम् ॥
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ।
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः ।
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् ।
अभ्यगच्छन्त सुप्रीता दिव्या देवमहर्षयः ।
प्रीतास्ते तस्य सत्कारं विधिना पावकापमाः ।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥
स तैः प्रीत्याऽथ सत्कारमुपनीतं महर्षिभिः ।
प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः ॥
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥
रविवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहार्चितः ॥
तत्रापश्यत्स धर्मात्मा देवदेवर्पिपूजितम् ।
नरनारायणस्थानं भागीरथ्योपशोभितम् ॥
तस्मिन्मधृस्रवफलां ब्रह्मर्षिगणभाविनीम् ।
वदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिः सह ॥
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा ।
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् ।
हिरण्यशिखरं चैव मध्ये विन्दुसरः शिवम् ॥
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् ।
मणिप्रवालप्रस्तारां पादपैरुषशोभिताम् ॥
दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम् ।
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥
तस्मिन्देवर्षिचरिते देशे परमदुर्गमे ।
भागीरथीपुण्यजलेतर्पयांचक्रिरे पितॄन् ।
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः ॥
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः ।
ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुपर्षभाः ॥
कृष्णायास्तत्रपशय्न्तः क्रीडितान्यमरप्रभाः ।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि
सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
3-147-11 वक्ष्यन्ति वहनं करिष्यन्ति ॥ 3-147-17 रत्नाकरैः
आसमन्तात् युतान् ॥ 3-147-22 अभ्याशे समीपे ॥ 3-147-27 स्वभावत एव विशेषेण
रहिते स्वभावविहिते । जातां बदरीम् ॥ 3-147-33 अग्निशरणैः अग्न्यगारैः । आचितं
व्याप्तम् । कठिनैः शिक्यैः करण्डैर्वा ॥ 3-147-39 सत्कारं चक्रुरिति शेषः ॥ 3-147-46 सीतां विमलपङ्कजाम् इति झ. पाठः । सीतां नामतः । प्रस्तारः
सोपानपादगणादिरूपः । षट्ट इत्यर्थः ॥