अध्यायः 148

दाचन पाञ्चाल्या भीमसंनिधाने वाय्वानीताद्भुतसौगन्धिकपुष्पदर्शनम् ॥ 1 ॥ तया तादृशबहुपुष्पानयनं प्रार्थितेन भीमेन तदर्थं गमनम् ॥ 2 ॥ भीमस्य मध्येमार्ग स्वमार्गनिरोधकेन हनुमता सह संवादः ॥ 3 ॥

वैशंपायन उवाच ।
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ॥
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ।
मनोज्ञे काननवरे सर्व भूतमनोरमे ॥
पादपैः पुष्पविकचैः फलभारावनामितैः । शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः ।
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च । कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः ।
पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः ॥
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः ।
ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान् ॥
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया ।
सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥
तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम् ।
अनिलेनाहृतंभूमौ पतितं जलजं शुचि ॥
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥
इदं च धर्मराजाय प्रदास्यामि परंतप । `गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ' ।
हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥
एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता ।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।
आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् । मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः ।
[ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥
न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः । कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥]
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः ।
व्यपेतभयसमोहः शैलमभ्यपतद्बली ॥
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् ।
गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः ।
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥
सर्वर्तुरमणीयेषु गन्धमादनसानुषु ।
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च ।
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम् ।
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना ।
पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ॥
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।
विलोकयामास तदा पुष्पहेतोररिंदमः ॥
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः ।
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः ।
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥
अभिरामदरीकुञ्जनिर्झरोदककन्दरम् ।
अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् ।
स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥
सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः ।
भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥
चालयानः स्ववेगेन लताजालान्यनेकशः ।
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।
प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥
मत्तवारणविक्रन्तो मत्तवारणवेगवान् ।
मत्तवारणताम्राक्षो मत्तवारणवारणः ॥
प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः ।
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥
नवावतारं रूपस् विक्रीडन्निव पाण्डवः ।
चचार रमणीयेषु गन्धमादनसानुषु ॥
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् ।
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥
सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते ।
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च ।
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् ।
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥
[सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु । द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥]
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु ।
त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः ।
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥
जलावलम्बोऽतिभृशं सविद्युदिव तोयदः ।
`व्यनदत्स महानादं भीमसेनो महाबलः ॥
तेन शब्देन महता भीमस्य प्रतिबोधिताः ।
गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः । ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम् ।
व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥
तेन वित्रासिता नागाः करेणुपरिवारिताः ।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् ॥
वराहमृगसङ्घाश्च महिषाश्च वनेचराः ।
व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥
रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः ।
शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः ॥
तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः ।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन् ॥
शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः ।
व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान् ॥
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः । गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः ।
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः ।
भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥
अथापश्यन्महाबाहुर्गनधमादनसानुषु ।
सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम् ॥
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः ।
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान् । चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ।
विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥
ततः संन्यपतंस्तत्रसुबहूनि महान्ति च ।
रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥
`प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः' ॥
तेन शब्देन चैवाथ भीमसेनरवेण च ।
वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः ॥
तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम् ।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम् ।
महागज इवोद्दामश्चिक्रीड बलवद्बली ॥
विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः ।
`क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः' ॥
ततो जगाहे वेगेन तद्वनं बहुपादपम् । दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ।
[आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ॥]
तस्य शङ्खस्य शब्दन भीमसेनरवेण च ।
बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः ॥
तं वज्रनिष्पेषसममास्फोटितमहारवम् ।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः ।
[भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् ।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥
आस्त एकायने मार्गे कदलीषण्डमण्डिते ।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥
माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः ।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः ॥
प्राजृम्भत महाकायो हनूमान्नाम वानरः ।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥
`तेन शब्देन महता व्यबुध्यत महाकपिः' । जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ।
आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः ।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः ।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् ।
अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः ।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥
कदलीवनमध्यस्थमथ पीने शिलातले ।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम् ।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम् ॥
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम् ।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम् ।
अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम् ।
केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् । दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम् ।
निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥
तं वानरवरं धीमानतिकायं महाबलम् ।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम् ॥
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने ।
अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥
सिंहनादं चकारोग्रं वज्राशनिसमं बली ।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥
हनूमांश्च महासत्व ईषदुन्मील्य लोचने ।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥
`ततः पवनजः श्रीमानन्तिकस्थं महौजसम्' ।
स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ।
ननु नाम त्वया कार्या दया भूतेषु जानता ॥
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः ।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ॥
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।
धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया ।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः ।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥
क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ ।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥
विना सिद्धगतिं वीर गतिरत्र न विद्यते ।
[देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा] ॥
कारुण्यात्त्वामहं वीर वारयामि निबोध मे ।
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ ।
इमान्यमृतकल्पानि मूलानि च फलानि च ॥
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम् । ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥

इति श्रीमन्महाभारेत अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 248 ॥

3-148-3 पुष्पविकचैर्विकसितकुसुमैः ॥ 3-148-6 पूर्वोत्तरे ऐशानकोणे ॥ 3-148-8 सौगन्धिकं पद्मजातिभेदः ॥ 3-148-9 संस्थानमाकारः ॥ 3-148-10 हरेः आहर । इदमे तज्जातीयम् ॥ 3-148-15 प्रभिन्नो मत्तः ॥ 3-148-16 मातरिश्वनो वायोः ॥ 3-148-23 पितुर्यथा पुत्रस्पर्शः शीतस्तादृक् स्पर्शवता वायुनेत्यर्थः ॥ 3-148-24 पित्रा वायुना ॥ 3-148-26 धातुविच्छेदैर्धातुभेदैः । अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः । आञ्जनेति कृष्णधातुग्रहणम् । पीतकृष्णश्वेतधातुभिरित्यर्थः ॥ 3-148-27 पयोधरैर्मेघैः ॥ 3-148-28 दरी बिलगृहम् । कदरं महाप्रपातः ॥ 3-148-29 विषाणाग्रैर्दन्ताग्रैः । शिलाः समपाषाणाः शयनासनयोग्याः । उपलास्तदन्ये ॥ 3-148-30 शष्पं बालतृणम् । कबलो ग्रासस्तद्युक्तैः ॥ 3-148-33 वारणानामपि वारणः निवारकः संग्रामादौ ॥ 3-148-34 विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥ 3-148-35 रूपस्य सौन्दर्यस्य ॥ 3-148-41 निर्घात उत्पातः । पर्वसु उत्सवेषु ॥ 3-148-42 पोथयन् मर्दयन् ॥ 3-148-43 लता भूचरा । बल्ली वृक्षचरेति भेदः ॥ 3-148-49 रथाङ्गसाह्वाः चक्रसमाननामानश्चक्रवाका इतियावत् । दात्यूहः मयूरश्चातको वा ॥ 3-148-50 करेणुशरेण हस्तिनीकृतेवोत्तेजनेन पीजिताः । शरस्तूतेजने वाणे इतिभेदिनी ॥ 3-148-56 आस्त्रावी मत्तः ॥ 3-148-64 नलिनोत्पलं पद्मपुष्पम् ॥ 3-148-68 आस्फोटितं बाहुधातः ॥ 3-148-71 दिवंरामं मार्गं स्वर्गमार्गम् ॥ 3-148-72 एकायने अतिसंकुचिते ॥ 3-148-76 उद्गारं रप्रतिशब्दं गौरिव उत्ससर्ज ॥ 3-148-82 बाहोः स्वस्तिकं चतुरश्रं मूलं अंस इति यावत् तत्र न्यस्तकधरमित्यर्थः । तत्र हेतुः स्कन्धेति । विपुलांसत्वादित्यर्थः ॥ 3-148-84 उडुपं चन्द्रम् ॥ 3-148-85 अशोकानामशोकपुष्पाणाम् ॥ 3-148-92 सरुजः सपीडः । ते स्वया ॥ 3-148-99 आश्वसिहि विश्वासं कुरु ॥ 3-148-101 मह्यं मम ॥