अध्यायः 153
उपसंहृतपृथुरूपेण हनुमता सपरिष्वङ्गवरदानं विसृष्टेन भीमेन गन्धमादने सौरान्धिकसरोदर्शनम् ॥ 1 ॥
वैशंपायन उवाच ।
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् ।
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत ।
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥
[बलं चातिबलो मेने न मेऽस्ति सदृशो महान् ।]
ततः पुनरथोवाच पर्यश्रुनयनो हरिः ॥
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ।
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे ॥
इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित् ।
धनदस्यालयाच्चापि विसृष्टानां महाबल ॥
एष काल इहायातुं देवगन्धर्वयोषिताम् ।
ममापि सफलं च क्षुः स्मारितश्चास्मि राघवम् ॥
[रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम् ।
सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ॥]
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ।
तदस्मद्दर्शनं वीर कौन्तेयामाघमस्तु ते ॥
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ।
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ॥
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ।
शिलया नगरं वा तन्मर्दितव्यं मया यदि ॥
[बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् ।]
यावदेतत्करोम्यद्यकामं तव महाबल ॥
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस् महात्मनः ।
प्रत्युवाच हनून्तं प्रहृष्टेनान्तरात्मना ॥
कृतमेव त्वया सर्वं मम वानरपुङ्गव ।
स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीदमे ॥
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ।
तवैव तेजसा सर्वान्विजेष्यामो वयं परान् ॥
एवमुक्तस्तु हनुमान्भीमसेनमभाषत ।
भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव ॥
चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम् ।
यदा सिंहरवं वीर करिष्यसि महाबल ॥
तदाहं बृंहयिष्यामि स्वरवेण रवं तव ।
`यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे' ॥
विजयस्य ध्वजस्थश्च नादान्मोक्ष्पामि दारुणान् ।
शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ ॥
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम् ।
मार्गमाख्याय भीमाय तत्रैवान्तरधीयत ॥
गते तस्मिन्हरिवरे भीमोपि बलिनांवरः ।
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि ।
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥
स तानि रमणीयानि वनान्युपवनानि च ।
विलोलयामास तदा सौगन्धिकवनेप्सया ॥
फुल्लपद्मविचित्राणि सरांसि सरितस्तथा ।
नानाकुसुमचित्राणि पुष्पितानि वनानि च ॥
मत्तवारणयुथानि पङ्कक्लिन्नानि भारत ।
वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥
हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम् ।
सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ ॥
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् ।
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः ।
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः ।
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।
द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः ॥
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।
काञ्चनैर्विलैः पद्मैर्ददर्श विपुलां नदीम् ॥
हंसकारण्डवयुतां चक्रवाकोपशोभिताम् ।
रचितामिव तस्याद्रेर्भालां विमलपङ्कजाम् ॥
तस्यां नद्यां महासत्वः सौगन्धिकवनं महत् ।
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः ।
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥