अध्यायः 154

सौगन्धिकसरोविविक्षुं भीमंप्रति तद्रक्षिभिः क्रोधवशनामकै राक्षसैस्तच्चिकीर्षिप्रश्नः ॥ 1 ॥

वैशंपायन उवाच ।
स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिरे रम्ये ददर्श शुभकानने ॥
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः ।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम् ॥
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् ।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम् ॥
अतीव रम्यां सुजलां जातां पर्वतसानुषु ।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः ॥
तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम् ।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः ।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥
आक्रीडं राजराजस् कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥
सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा ।
राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च ॥
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः ।
बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत् ॥
तच्च क्रोवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।
पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥
ततः सर्वे महाबाहुं समासाद्यवृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥
मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे । यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥

3-154-3 सूपतीर्थां शोभनानि उपतीर्थानि तीराणि यस्यां सा ॥ 3-154-5 लघु आरोग्यकरम् ॥ 3-154-6 जातरूपं स्वर्णम् ॥ 3-154-8 आक्रीडं क्रीडास्थानम् ॥