अध्यायः 158
विप्रवेषेण पाण्डवनिकटचिरवासिना जटासुरेण भीमासंनिधाने
द्रौपदीसहितान्युधिष्ठिरादीनपहृत्य पलायनम् ॥ 1 ॥ मध्येमार्गं यदृच्छासमागतेन
भीमन तस्य मारणम् ॥ 2 ॥
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् ।
[पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ॥]
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ।
रहितान्मीमसेनेन कदाचित्तान्यदृच्छया ।
जहार धर्मराजं वै यमौ कृष्णां च राक्षसः ॥
`जनमेजय उवाच ।
ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः ।
जहार चित्रं भीमश्च गतो राक्षसकण्टकः ।
वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ ॥
वैशंपायन उवाच ।'
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः ।
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ।
परीप्समानः पार्थानां कलापांश्च धनूंषि च ॥
अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति ।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः ॥
[पोषणं तस् राजेनद्र चक्रे पाण्डवनन्दनः ।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् ॥
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे ।
[घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः ॥
लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान् ।
स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान्] ॥
रूपमन्यत्समास्थाय विकृतं भैरवं महत् ।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च ।
प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥
[विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः ।]
आक्रन्दद्भीमसेन वै येन यातो महाबलः ॥
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः ।
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥
येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये ।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः ॥
धर्मस्यराक्षसा मूलं धर्मं ते विदुरुत्तमम् ।
एतत्परीक्ष्यसर्वं त्वं समीपे स्थातुमर्हसि ॥
देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस ।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा ॥
तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः ।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि ॥
समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति ।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः ।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस ।
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि ।
अनुरप्यपचारश्च नास्त्यस्माकं नराशन ॥
विघसाशान्यथाशक्त्या कुर्महे देवतादिषु ।
गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ॥
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।
येषां चान्नानि भुञ्जीत यत्रच स्यात्प्रतिश्रयः ॥
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः ।
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥
एवमेव वृथाचारो वृथा वृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाऽद्य नमविष्यसि ॥
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः ।
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि ।
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं ॥
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् ।
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत ।
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः ।
मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता ॥
नातिदूरे महबाहुर्भविता पवनात्मजः ।
अस्मिन्मुहूर्ते संप्राप्ते नभविष्यति राक्षसः ॥
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् ।
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥
राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् ।
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ॥
एष वास्मान्वयं वैनं युध्यमानाः परंतप ।
सूदयेम महाबाहो देशः कालो ह्ययं नृप ॥
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम ।
जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि ।
नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत ॥
भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः ।
हत्वा रवा मां नयस्वैनां हतो वा स्वप्स्यसीह वै ॥
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया ।
प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥
सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम् ।
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् ।
भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम् ॥
हृतान्संदृश्य तान्भ्रातृन्द्रौपदीं च महाबलः ।
क्रोधमाहारयद्भीमो राक्षसंचेदमब्रवीत् ॥
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे ।
आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा ॥
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ।
प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम् ।
ब्रह्मरूपेण विहितं नैव हन्यामनागसम् ॥
राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत् ।
अपक्वस्य च कालेन वधस्तव न विद्यते ॥
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ।
`सोपि कालं समासाद्य तथाऽद्य नभविष्यसि' ॥
बडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः ।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि ॥
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः ।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।
तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम् ॥
`एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ ।
करालवदनः क्रोधात्कालसर्प इव श्वसन्' ॥
एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन् ।
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥
`ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः' ।
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥
मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन् ।]
अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥
भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः ।
राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत' ॥
वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे ।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम् ॥
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः ।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥
आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च ।
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः ।
अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव ॥
तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम् ।
आरुज्यारुज्यतौ वृक्षानन्योन्यमभिजघ्नतुः ।
जीमूताविव धर्मान्ते विनदन्तौ महाबलौ ॥
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ ॥
तद्वृक्षयुद्धमभवनमहीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः ।
पुगीकृताश्च शतशः परस्परवधेप्सया ॥
ततः शिलाः समादाय मुहूर्तमिव भारत ।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥
शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम् ।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥
अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ ।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥
मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः ।
ततः कटकटाशब्दो बभूव शुमहात्मनोः ॥
ततः संहृत्यमुष्टिं तु पञ्चशीर्षमिवोरगम् ।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् ।
सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥
तत एनं महाबाहुर्बाहुभ्याममरोपमः ।
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥
`ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः ।'
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः ।
अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥
संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम् ।
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ।
पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥
तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत् ।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि जटासुरवधपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥
3-158-4 कलापान् निषङ्गान् ॥ 3-158-10 कौशिकं कोशादागतम् ।
ग्रहं ग्रहणम् ॥ 3-158-16 युष्माकं देवासुरादीनाम् । ऋध्यति वृद्धिं गच्छति ॥ 3-158-19 विघसाशान् देवादिशेषान्नं विघसं तस्य आशो भोजनं येषां तान् ॥ 3-158-20 प्रतिश्रयो गृहम् ॥ 3-158-22 नभविष्यसि मरिष्यति ॥ 3-158-26 गुरुकः
समपद्यतेति झ. पाठः ॥ 3-158-30 सत्कृत्यं साधुकार्यम् ॥ 3-158-39 आस्था
त्वन्मारणे आदरः ॥ 3-158-40 अतिथि ब्रह्मरूपं च कथं इति झ. पाठः ॥ 3-158-42
कालपक्व इदानीं त्वं यथेति थ. पाठः ॥ 3-158-43 बडिशो मत्स्यवेधनम् ॥ 3-158-47
अस्रेण लोहितेन ॥ 3-158-60 पुरा स्त्रीकाङ्क्षिणोर्यथा इति झ. पाठः ॥ 3-158-61 आविध्य भ्रामयित्वा ॥ 3-158-62 मुञ्जीकृताश्चेति झ. पाठः । तत्र
मुञ्जीकृताः रज्ज्वर्थं मुञ्जवज्जर्जरीकृता इत्यर्थः ॥ 5-158-63
महाभ्रैरिवेत्यभूतोपमा ॥ 3-158-67 शिरोधरां ग्रीवाम् ॥ 3-158-68 अभ्यवर्तत
अधिकोत्साह्वानभूत् ॥