अध्यायः 159
जटासुरवधानन्तरं सपरिवारेण युधिष्ठिरेण नरनारायणाश्रमे निवासः ॥ 1 ॥ ततो वृषपर्वाश्रमादिषु सुखेन संचरणम् ॥ 2 ॥ तत आर्ष्टिषेणाश्रमगमनम् ॥ 3 ॥
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् ।
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः ।
द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम् ॥
समाश्चतस्रोऽभिगताः शिवेन चरतां वने ।
कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम् ॥
प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम् ।
[पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः ॥
मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम् ।
व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा ॥
श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम् ।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः ॥
प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि ।
महापुणअयं पवित्रं च सुरासुरनिषेवितम् ।]
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥
कृतश्च समयस्तेन पार्थेनामिततेजसा ।
पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि ॥
अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् ।
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः ।
कारणं चैव तत्तेवामाचचक्षे तपस्विनाम् ॥
तमुग्रतपसः प्रीताः कुत्वापार्थं प्रदक्षिणम् ।
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ ।
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् ।
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ॥
`द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा' ।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः ॥
क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित् ।
तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः ॥
ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन् ।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥
अवेमाण कैलासं मैनाकं चैव पर्वतम् ।
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥
उपर्युपरि शैलस्य बहीश्च सरितः शिवाः ।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम् ।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते ॥
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः ।
समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः ।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः ॥
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् ।
पूजिताश्चावसंस्तत्रसप्तरात्रमरिंदमाः ॥
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् ।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन् ॥
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि ।
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ।
पारिबर्हं चतं शेषं परिदाय महात्मने ॥
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च ।
न्यदधुःपाण्डवा राजन्नाश्रमे वृषपर्वणः ॥
अतीतानागते विद्वान्कुशलः सर्वधर्मवित् ।
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् ।
`कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन् ।
उपन्यस् महातेजा विप्रेभ्यः पाण्डवांस्तदा ॥
अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च ।
वृषपर्वा निववृतेपन्थानमुपदिश्य च ॥
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः ।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु ।
पर्वतं विविशुस्ते तं चतुर्थेऽहनि पाण्डवाः ॥
महाभ्रघनसंकाशं सलिलोपहितं शुभम् ।
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥
`रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम् ।
शिलाविभङ्गविकटं लतापादपसङ्कुलम्' ॥
ते समासाद्यपन्थानं यतोक्तं वृषपर्वणा ।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः ।
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥
धौम्यः कृष्णा च पार्ताश्च लोमशश्च महानृषिः ।
आगच्छन्सहितास्तत्रन कश्चिदपि हीयते ॥
ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम् ।
शाखामृगगणैश्चैव सेवितं सुमनोरमम् ॥
पुण्यं पद्मसरोपेतं सपल्वलमहावनम् ।
उपतस्थुर्महाभागा माल्यवतं महागिरिम् ॥
ततः किंपुरुषावासं सिद्धचारणसेवितम् ।
ददृशुर्हृषरोमाणाः पर्वतं गन्धमादनम् ॥
विद्याधरानुचरितं किन्नरीभिस्तथैव च ।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम् ॥
शरभोन्नादसंघुष्टं नानमृगनिषेवितम् ॥
ते गन्धमादनवनं तन्नन्दनवनोपमम् ।
मुदिताः पाण्डुतनया मनोनयननन्दनम् ॥
विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ।
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ॥
शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान् ।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥
सर्वर्तुफलभाराञ्यान्सर्वर्तुकुसुमोज्ज्वलाम् ।
पश्यन्तः पादपांस्चापि फलभारावनामितान् ॥
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् ।
मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान् ॥
पनसाँल्लिकुचान्मोचाः खर्जूरानम्लवेतसान् ।
परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान् ॥
बेल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा ।
पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा ॥
मल्लातकानामलकीर्हरीतकबिभीतकान् ।
इङ्गुदान्करमर्दांश्च तिन्दुकांश् महाफलान् ॥
एतानन्यांश्च विविधान्गन्धमादनसानुषु ।
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरूपन् ॥
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ।
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् ।
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा ।
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा ।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा ॥
चकोरैः शतपत्रैश् भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः ॥
प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः ।
कुमुदैः पुण्डरीकैश्च तृथा कोकनदोत्पलैः ।
कहारैः कमलैश्चैव आचितानि समन्ततः ॥
कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ।
हृष्टैस्तथा तामरसरसासवमदालसैः ॥
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ।
मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ॥
अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु ।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः ॥
शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च ।
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥
कृत्वैव केकामधुरं संगीतं मधुरस्वरम् ।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥
मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान् ।
कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः ॥
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा ।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव ॥
कलापरुचिराटोपनिचितान्मुकुटानिव ।
विवरेषु तरूणां च रुचिरान्ददृशुश्च ते ॥
सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान् ।
सुवर्णवर्णकुसुमान्गिरीणां सिखरेषु च ।
कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान् ॥
तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान् ।
कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान् ॥
तथैव वनराजीनामुदारान्रचितानिव ।
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥
तथानङ्गशराकारान्सहकारान्मनोरमान् ।
अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान् ॥
हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि ।
लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि ।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥
तथा सालांस्तमालांश्च पाटलाबकुलानपि ।
माला इव समासक्ताः शैलानां शिखरेषु च ॥
विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः ।
कलहंसैरुपेतानि सारसाभिरुतानि च ॥
सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु ।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च ॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ।
गन्वन्त्यथ माल्यानि रसवन्ति फलानि च ॥
सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान् ।
विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः ॥
कमलोत्पलकह्लारपुण्डरीकसुगन्धिना ।
सेव्यमाना वने तस्मन्सुखस्पर्शेन वायुना ॥
ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः ।
अहो श्रीमदिदं भीम गन्धमादनकाननम् ॥
वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ।
भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ॥
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः ।
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥
भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः ।
विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः ॥
पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम् ।
स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ॥
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे ।
उपगीयमाना भ्रमरै राजन्ते वनराजयः ॥
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः ।
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः ।
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् ।
नदतां शृणु निर्घोषं भीम पर्वतसानुषु ॥
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः ।
पत्रिणः पुष्पितानेतान्संपतन्ति महाद्रुमान् ॥
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः ।
परस्परमुदीन्ते बहवो जीवजीवकाः ॥
हरितारुणवर्णानां शाड्वलानां समीपतः ।
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः ।
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः ॥
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः ।
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥
बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः ।
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ॥
भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः ।
शोभयन्ति महाशैलं नानारजतधातवः ॥
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः ।
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः ।
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः ।
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥
गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः ।
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ॥
गीतानां समतालानां तथासाम्नां च निःखनः ।
श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥
महागङ्गामुदीक्षख पुण्यां देवनदीं शुभाम् ।
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ॥
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः ।
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः ।
उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥
वैशंपायन उवाच ।
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् ।
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः ।
आर्ष्टिपेणस् राजर्षेराश्रमं ददृशुस्तदा ॥
ततस्ते तिग्मतपसं कृशं धमनिसंततम् ।
पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥
3-159-2 जयं अर्जुनम् ॥ 3-159-3 कृतोद्देशः पञ्चमे वर्षे
मयाऽवश्यमागन्तव्यमिति कृतसंकेतः ॥ 3-159-4 श्वेतं कैलासम् ॥ 3-159-7 तत्रापि
देशे अस्माभिरिति शेषः । उद्देशः कृतः । संधिरार्षः ॥ 3-159-12 सुखोदर्कं
सुखोदयम् ॥ 3-159-28 उपन्यस्य निवेद्य ॥ 3-159-29 अनुसंसार्य अनुगम्य ॥ 3-159-57 तामरसानां रसएव आसवो मद्यं तज्जेन मदेन अलसाः ॥ 3-159-58
विरुतान्विशिष्टशब्दयुतान् ॥ 3-159-63 कुटजेषु वृक्षविशेषेषु । वल्लीनां
रलताप्रतानानि तैः संकटेषु कुञ्जीकृतेषु ॥ 3-159-65 सिंधुवारान् पद्मविशेषान् ॥ 3-159-66 कामवश्यानां नराणामौत्मुक्यकरान् ॥ 3-159-76 हे भीम ॥ 3-159-80
नलिनीं सरसीम् । कमलोत्पलयोरवान्तरजातिभेदः । विग्रहवतीं शरीरवतीम् ॥ 3-159-81
तस्य शैलस्य ॥ 3-159-88 भृङ्गराजादयः पक्षिविशेषाः ॥ 3-159-89
चतुर्विषाणाश्चतुर्दन्ताः ॥