अध्यायः 160

आर्ष्टिपेणराजर्षिणा युधिष्ठिरंप्रति कैलासवर्णनपूर्वकमर्जुनागमनपर्यन्तं स्वाश्रमएव निवासचोदना ॥ 1 ॥

वैशंपायन उवाच ।
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥
ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ ।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥
कुरूणामृपभं प्राज्ञं पूजयित्वा महातपाः ।
सह भ्रातृभिरसीनं पर्यपृच्छदनामयम् ॥
नानृते कुरुपे भावं कच्चिद्धर्मे प्रवर्तसे ।
मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।
कच्चिन्न कुरुपे भावं पार्थ पापेषु कर्मसु ॥
सुकृतंप्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।
यथान्यायं कुरुश्रष्ठ जानासि न विकत्थसे ॥
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।
दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे ।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥
स्वेस्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।
पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च ॥
किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति ।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं ॥
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।
यस्यैतेपूजिताः पार्थ तस् लोकावुभौ जितौ ॥
[युधिष्ठिर उवाच ।
भगवन्नार्य माऽऽहैतद्यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया ॥
आर्ष्टिषेण उवाच ।]
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥
कामिनः सह कान्ताभिः परस्परमनुव्रताः ।
दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप ॥
अरजांसि च वासांसि वसानाः कौशिकानि च ।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।
महोरगगणाश्चैव सुपर्णाश्चारणादयः ॥
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु ।
भेरीपणवशङ्खानां मृदङ्गानां च निःखनः ॥
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।
न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः ॥
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।
विहारस्तत्र देवानाममानुषगतिस्तु सा ॥
ईषच्चपलकर्माणं मनुष्यमिह भारत ।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥
अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर ।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥
चापलाद्धि न गन्तव्यं पार्त यानैस्ततः परम् ।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥
शिखरे तं समासीनमधिपं यक्षरक्षसाम् ।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥
देवदानवसिद्धानां तथा वैश्रवणस्य च ।
गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु ।
गीतसामस्वनस्तात श्रूयते गन्धमादने ॥
एतदेवंविधं चित्रमिह तात युधिष्ठिर ।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात् ॥
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन ।
`चपलः सर्वभूतानां द्वेष्यो भवति मानवः' ॥
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च । ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि ॥

इति श्रीमन्महाभारते अरण्यपर्वणिः यक्षयुद्धपर्वणि षष्ट्यधिकततमोऽध्यायः ॥ 160 ॥

3-160-4 मुनिः आर्ष्ठिषेणः ॥ 3-160-7 वैद्याः विद्यया विदिताः ॥ 3-160-8 सुषुक्रनममां उपकारिणम् । दुष्कृतं अपकारिणं हातुं त्यक्तुं न विकत्थसे ज्ञातास्मीति न श्लाघसे ॥ 3-160-15 यथावत् माऽऽह यथामामाह ॥ 3-160-16 पर्वसंधिषु प्रतिपत्पञ्चदश्योरन्तराले ॥ 3-160-28 उद्यानं क्रीडावनयुतम् ॥