अध्यायः 161

कदाचन गरुडपक्षवातानीताद्भुताम्बुजदर्शिन्या द्रौपद्या तादृशबहुपुष्पानयनं तथा दुष्टयक्षराक्षसक्षपणं च प्रार्थितेन भीमेन तदर्थं गन्धमादनशिखरारोहणम् ॥ 1 ॥ तथा स्वीयशङ्खध्वनिश्रवणेनाभिद्रुतवतां मणिमदादीनां युद्धे हननम् ॥ 2 ॥

जनमेजय उवाच ।
आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः ।
पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः ॥
कियन्तं कालमवसन्पर्वते गन्धमादने ।
किंच चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥
विस्तरेण च मे शंस भीमसेनपराक्रमम् ।
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥
न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम ।
`धनदाध्युषिते नित्यं वसतस्तत्र पर्वते' ॥
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च ।
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन ।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥
वैशंपायन उवाच ।
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।
शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् ।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः ।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् ।
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः ।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥
आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः ।
ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥
ततः कतिपयाहस्सु महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।
ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम् ॥
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः ।
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥
तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥
भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥
सुपर्णानिलवेगेन श्वसनेन महाबलात् ।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥
`दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च ।
मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥
येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च ।
नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥
ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः ।
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् ।
गन्धसंस्थानसंपन्नं मम मानसवर्धनम्' ॥
प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति ॥
`वासुदेवसहायेन वासुदेवप्रियेण च' ।
खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥
गन्धर्वोरगरक्षांसि वासवश्च पराजितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥
तवापि सुमहत्तेजो महद्बाहुबलं च ते ।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥
एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः ।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥
`इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम् ।
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम' ॥
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः ।
नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः ॥
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥
महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः ।
रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥
सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः ।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।
ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः ।
व्यपेतभयसंमोहः शैलराजं समाविशत् ॥
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥
तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥
स किन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥
ततो वैश्रवणावासं ददर्श भरतर्षभः ।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥
[प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः ।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना । पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥]
मोदयनसर्वभूतानि गन्धमादनसंभवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥
गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः ॥
ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम् ।
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥
ततः प्रववृते युद्धं तेषां तस्य च भारत ॥
तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान् ।
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम् ।
शरैर्विव्याध गात्राणइ राक्षसानां महाबलः ॥
`शोणितस्य ततः पेतुर्घनानामिव भारत ।' गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः' ।
स लोहितमहावष्टिमभ्यवर्षन्महाबलः ॥
गदापरिघपाणीनां रक्षसां कायसंभवा ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥
स रश्मिभिरिवादित्यः शरैररिनिपातिभिः ।
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥
अभितर्जयमानाश्च रुवन्तश् महारवान् ।
सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥
ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान् ।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥
दर्शयन्स प्रतीकारं पौरुषं च महाबलः ।
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः ।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥
एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः ।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् ।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।
शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥
प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः ।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् ।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।
तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥
सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम् ।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥
सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः ।
गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् । प्रगृह्याथ नदन्भीमः शैक्यां सर्वायसीं गदाम् ।
तरसा चाभिदुद्राव मणिमन्तं महाबलम् ॥
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ।
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित् ।
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् ।
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा ।
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥
तं राक्षसं बीमबलं भीमसेनबलाहतम् ।
ददृशुः सर्वभूतानि सिंहेनेव गवांपतिम् ॥
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः । भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥

3-161-34 सद्गव इति झ. पाठः ॥ 3-161-36 पृथू विशिष्टौ अंसौ यस्यस पृथुव्यंसः ॥ 3-161-41 ग्लानिः श्रमः. कातर्यं भयम् । वैक्लव्यमनुत्साहः । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-161-42 एकायनं वामदक्षिणसंचारशून्यम् ॥ 3-161-45 परिक्षिप्तं परित आवृतम् ॥ 3-161-46 चयाट्टालकशोभिना । चयः प्रकारस्य मूलबन्धः । अट्टालकः उपरिगृहम् । तोरणं वहिर्द्वारम् । निर्व्यूहः नागदन्ताख्यं गृहान्निर्गतं दारु ॥ 3-161-48 वक्रभावेन वक्रेण बाहुना उपलक्षितः । खेदेन तद्दर्शनात्खसंपात्स्मरणं तेन. द्रविणाधिपतेः धनाधिपतेः ॥ 3-161-51 ददृशे ददर्श ॥ 3-161-64 न मोहं भीमसेनस्येति झ. पाठः ॥ 3-161-68 अदर्शयदाधीकारमिति झ. पाठः ॥ 3-161-69 सङ्ख्ये संग्रामे ॥ 3-161-74 प्रत्यहन्यन्त प्रतिहताः । वेगिताः वेगवन्तोपि । गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥ 3-161-75 सः भीमः । व्यंसयामास व्यर्थीचकार ॥ 3-161-76 अयस्मयी अयोमयीम् ॥ 3-161-79 शैक्यां शीकयति शत्रुन्पराभवतीति शैक्या । शीकयतेर्ऋहलोर्ण्यदिति ण्यत् । ततः स्वार्थिकोण् ॥