अध्यायः 163

कुबेरेण युधिष्ठिरानुशासनपूर्वकं स्वभवनगमनम् ॥ 1 ॥ कुबेराज्ञया राक्षसपूजितैर्युधिष्ठिरादिभिस्तद्रात्रौ तद्गृहे सुखवासः ॥ 2 ॥

धनद उवाच ।
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः ।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् ।
क्षत्रियः क्षत्रियश्रेष्ठ शास्ति वै पृथिवीमनु ॥
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु ।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥
[यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते ।] पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते ।
कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ॥
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् ।
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ॥
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् ।
सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः ॥
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः ।
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥
आर्ष्टिषेणस् राजर्षेः प्राप्य भूयस्त्वमाश्रमम् ।
तमिस्रां प्रथमां तत्र वीतशोकभयो वस ॥
अलकां सह गन्धर्वैर्यक्षैश्च सह किन्नरैः ।
`गमिष्यामि महाबाहो त्वं चापि बदरीं व्रज' ॥
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।
रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः ॥
साहसेषु च संतिष्ठंस्त्वया शैले वृकोदरः ।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतांवर ॥
इतः परं च वो राजन्द्रक्ष्यन्ति वनगोचराः ।
उपश्थास्यन्ति वो राजन्रक्षिष्यन्ते च वः सदा ॥
तथैव चान्नपानानि स्वादूनि च बबूनि च ।
आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः ॥
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः ।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित् ।
भीमसेनादवरजः पल्गुनः कुशली दिवि ॥
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः ।
जनमप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥
द्रमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
एतान्यपि महासत्वे स्थितान्यमिततेजसि ॥
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् ।
न पार्थस् मृषोक्तानि कथयन्ति नरा नृषु ॥
स देवपितृगन्धर्वैः कुरूणआं कीर्तिवर्धनः ।
आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् ।
स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ।
सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः ॥
पितॄन्देवानृषीन्विप्रान्पूजयित्वा महायशाः ।
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः ।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम् ।
पाण्डवाश्च ततस्तेन बभूवः संप्रहर्षिताः ॥
ततः शक्तिं गदां खङ्गं धनुश्च भरतर्षभः ।
प्राध्वंकृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् ।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥
`विभयस्ताप शैलाग्रे वसानः सह बन्धुभिः ।
सुपर्णपितृदेवानां सततं मानकृद्भव ॥
ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम् ।
दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्' ॥
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः ।
कामान्न परिहास्यन्ति यक्षा वोभरतर्षभाः ॥
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः ।
साक्षान्मघवतोत्सृष्टः संप्राप्स्यति धनंजयः ॥
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् ।
अस्तं गिरिमिवादित्यः प्रययौ गुह्यकाधिपः ॥
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥
पक्षिणामिव कनिर्घोषः कुबेरसदनं प्रति ।
बभूव परमाश्वानामैरावतपथे यथा ॥
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।
प्रकर्षन्त इवाभ्राणि पिबन्त इवमारुतम् ॥
ततस्तानि शरीराणि गतसत्वानि रक्षसाम् ।
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥
तेषां हि शापकालः स कृतोऽगस्त्येन धीमता ।
समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा ॥
पाण्डवाश्महात्मानस्तेषु वेश्मसु तां क्षपाम् । सुखमूषुर्गतोद्वेगाः पूजिताः सह राक्षसैः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

3-163-1 दाक्ष्यं यत्नशीलता । पराक्रमः शत्रूणामभिभावनहेतुः क्रिया । विधानानां कार्याणां विधिरभ्युदयहेतुः । अदेशे अकाले च कृतं धृत्यादिकमभिभवहेतुरित्यर्थः ॥ 3-163-6 संरम्भात् कोपात् ॥ 3-163-8 निकृतीनां वञ्जनापराणाम् ॥ 3-163-9 अवलिप्तो गर्वितः ॥ 3-163-18 तत्त्वं याथात्म्यम् । विधानं प्राप्त्युपायम् ॥ 3-163-19 स्वर्ग्याः स्वर्गाय हिताः संपदः ॥ 3-163-22 कुरुते अभ्यस्यति ॥ 3-163-25 महामेधानश्वमेधान् ॥ 3-163-28 प्राध्वंकृत्वा बह्वा । उपसंहृत्येत्यर्थः ॥ 3-163-29 नन्दिः समृद्धिः ॥ 3-163-32 स्वेषु वेश्मसु अस्मदीयेषु । कामान् काम्यमानानर्थान् न परिहास्यन्ति किंतु साधयिष्यन्त्येवेत्यर्थः ॥ 3-163-35 परिस्तोमाश्रित्रकम्बला हस्त्यादीनां पल्याणभूताः ॥ 3-163-36 ऐरावतपथे इनद््रपुरीप्रदेशे ॥ 3-163-38 अपाकृष्यन्त अपाकृतानि ॥