अध्यायः 012
श्रीकृष्णेन स्वीयैः सह वने पाण्डवसमीपगमनम् ॥ 1 ॥ अर्जुनेन
कृष्णस्तवनम् ॥ 2 ॥ स्वदुखनिवेदनपूर्वकं रुदन्त्या द्रौपद्याः कृष्णेन
समाश्वासनम् ॥ 3 ॥
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह ।
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः ।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः ।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः ।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ।
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ॥
वासुदेव उवाच ।
दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥
एतान्निहत्य समरे ये च तेषां पदानुगाः ।
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ॥
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ॥
वैशंपायन उवाच ।
पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् ।
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ॥
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः ।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥
अर्जुन उवाच ।
दशवर्षसहस्राणि यत्रसायंगृहो मुनिः ।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः ।
आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ॥
प्रभासभप्यथासाद्य तीर्थं पुण्यजनार्चितम् ।
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः ।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं ।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥
`योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः ।
शीलस्त्वं सर्वयोगानां करणं नियमस्य च' ॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित् ।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः ।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥
स त्वं नारायणो भूत्वा हरिरासीः परंतप ।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥
तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः ।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन ।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप ।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।
संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः ।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥
प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो ।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ॥
सादिता मौखाः पाशा निशुम्भनरकौ हतौ ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह ।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम्
एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह ।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि ।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा ।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन ।
आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ॥
युगादौ तव वार्ष्णेय नाभिपद्मादजायत ।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत् ।
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ॥
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः ।
ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ॥
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ ।
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ॥
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः ।
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ॥
नैवं परे नापरे वा करिष्यन्ति कृतानि वा ।
यानि कर्माणि देव त्वं बाल एव महाबलः ॥
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥
वैशंपायन उवाच ।
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः ।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।
काले लोकमिमं प्राप्तौ नरनारायणावृषी ॥
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च ।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥
वैशंपायन उवाच ।
`इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः ।
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ॥'
एवमुक्ते तु वचने केशेवेन महात्मना ।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ॥
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह ।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥
द्रौपद्युवाच ।
`वासुदेव हृषीकेश वासवावरजाच्युत ।
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्' ॥
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम् ।
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ॥
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ॥
ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम ।
सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ॥
साध्यानामपि देवानां शिवानामीश्वरेश्वर ।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥
ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः ।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ॥
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो ।
जठरे खमिमे लोकाः पुरुषोसि सनातनः ॥
विद्यातपोभितप्तानां तपसा भावितात्मनाम् ।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ॥
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ ।
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ॥
लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश ।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥
मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो ।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता ।
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ॥
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता ।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन ।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम् ।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥
आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत ।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन ।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥
पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः ।
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ॥
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा ।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ॥
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान् ।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥
भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम् ।
कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन ।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् ।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ॥
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।
महद्व्यसनमापन्ना शिखिना परिवारिता ॥
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात् ।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः ।
तथैवाभिपतिष्यामि भयंवो नेह विद्यते ॥
आर्यामङ्केन वामेन राजानं दक्षिणेन च ।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥
ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः ।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ॥
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ ।
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ॥
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला ।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः ।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ॥
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी ।
भीमसेनं महात्मानमाह चैवमनिन्दिता ॥
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान् ।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ॥
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः ।
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ॥
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः ।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥
राक्षस उवाच ।
केन सार्धं कथयसि आनयैनं ममान्तिकम् ।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ॥
सा कृपासंगृहीतेन हृदयेन मनस्विनी ।
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ॥
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली ।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा ।
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ॥
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ ।
निजघान महावीर्यस्तं तदा निर्बलं बली ॥
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ॥
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः ।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः ।
ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ॥
तत्राप्यासादयामासुर्बकं नाम महाबलम् ।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना ।
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ॥
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन ।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ॥
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता ।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ॥
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं ।
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम् ।
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ॥
कुले महतिजाताऽस्मि दिव्येन विधिना किल ।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी ।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः ।
बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ॥
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः ।
न भ्रातरो न च पिता नैव त्वं मधुसूदन ॥
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः ।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ॥
वैशंपायन उवाच ।
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे ।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ॥
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् ।
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ॥
यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः ।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत् ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात् ।
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ॥
आबभाषे महाराज द्रौपदीमर्जुनस्तदा ।
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः ।
तथा तद्भविता देवि नान्यथा वरवर्णिनि ॥
धृष्टद्युम्न उवाच ।
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।
दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ॥
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः ।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥
वैशंपायन उवाच ।
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः ।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
3-12-7 निकृत्या छलेन ॥ 3-12-8 अभिषङ्गेण दुःखेन पराभवेन वा ॥ 3-12-11 यत्र सायंकालस्तत्रैव गृहं यस्य स यत्रसायंगृहः ॥ 3-12-14
उत्तरासङ्ग उत्तरीयवस्त्रम् ॥ 3-12-17 क्षेत्रज्ञः अन्तरात्मेत्य्रथः ॥ 3-12-19 भौमं भूमिपुत्रम् । मेध्यं यज्ञियम् ॥ 3-12-20 तत्कर्म
अश्वोत्सर्गाख्यम् ॥ 3-12-28 संप्राप्य सम्यक््व्याप्य । आदित्यस्यन्दने
सूर्यदेहे भास्करमण्डलाभिमानिनं जीवम् ॥ 3-12-30 सादिताः छिन्नाः मौरवाः
आन्त्रतन्तिमयाः । मुर वेष्टने अस्मादौणादिके उक्रप्रत्यये तद्धितः ॥ 3-12-31
जारूथ्यां नगर्याम् ॥ 3-12-32 सौभं खेचरं पुरम् ॥ 3-12-36 नृशंस्यं
निर्दयत्वम् ॥ 3-12-37 चैत्यं आयतनं आध्यात्मिकं हृदयपुण्डरीकं । बाह्यं
देवालयादि ॥ 3-12-38 आत्मनैव निमित्तान्तरं विना ॥ 3-12-50 समावाये समूहे ।
संरब्धेषु कुपितेषु ॥ 3-12-65 स्त्रीधर्मिणी रजस्वला ॥ 3-12-67 ईषुः ऐच्छन् ॥ 3-12-68 स्नुषा वधूः ॥ 3-12-69 धर्मपत्नीं यज्ञसंयोगिनीम् ॥ 3-12-70
विप्रकृतां दुःखंप्रापिताम् । मर्षयेतां क्षमेताम् ॥ 3-12-74 नान्वपद्यन्त
नानुगृहीतवन्तः ॥ 3-12-78 राष्ट्राणमपराधम् । दुर्बलीयसां दुर्बलतराणाम् ॥ 3-12-80 अधिज्यमारोपितगुणम् ॥ 3-12-84 सशेषत्वात् । आयुष इति शेषः ॥ 3-12-85
प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ॥ 3-12-88
अपोथयत् प्रहृतवान् । अपहस्तेन हस्तपृष्ठेन ॥ 3-12-89 उपाधाक्षीत् दाहार्थं
उपहृतवान् । आर्या श्वश्रूः ॥ 3-12-93 वैनतेयः विनतापुत्रः ॥ 3-12-106
कृपासंगृहीतेन श्नेहवशेन ॥ 3-12-109 संहृत्य मुष्टीकृत्य ॥ 3-12-119 एवं
क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः । निवसामार्यया हीनाः कृष्ण
धौम्यपुरस्सरा इति क. ट. द. पाठः ॥ 3-12-129 विशोकवद्विशोका इव ॥ 3-12-130
संबन्धात् पितृष्वस्रीयभार्यात्वात् । गौरवादग्निकुण्डोद्भवत्वात् । सख्यात्
भक्तिमत्त्वात् । प्रभुत्वेन सामर्थ्यवत्त्वेन त्वदीयेन ॥ 3-12-138 स्वसः हे
भगिनि ॥