अध्यायः 166
अर्जुनेन युधिष्ठिरादीन्प्रति संक्षेपेण स्वकीयस्वर्गनिवासप्रकारकथनम् ॥ 1 ॥
वैशंपायन उवाच ।
ततः कदाचिद्धरिसंप्रयुक्तं
महेन्द्रवाहं सहसोपयातम् ।
विद्युत्प्रभं प्रेक्ष्य महारथानां
हर्षोऽर्जुनं चिन्तयतां बभूव ॥
स दीप्यमानः सहसाऽन्तरिक्षं
प्रकाशयन्मातलिसंगृहीतः ।
बभौ महोल्केव घनान्तरस्था
शिखेव चाग्नेर्ज्वलिता विधूमा ॥
तमास्थितः संददृशे किरीटी
स्रग्वी नवान्याभरणानि बिभ्रत् ।
धनंजयो वज्रधरप्रभावः
श्रिया ज्वलन्पर्वतमाजगाम् ॥
स शैलमासाद्य किरीटमाली
महेन्द्रवाहादवरुह्य तस्मात् ।
धौम्यस्य पादावभिवाद्य पूर्व-
मजातशत्रोस्तदनन्तरं च ॥
वृकोदरस्यापि च वन्द्य पादौ
माद्रीसुताभ्यामभिवादितश्च ।
समेत्य कृष्णां परिसान्त्व्य चैनां
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥
बभूव तेषां परमः प्रहर्ष-
स्तेनाप्रमेयेण समेत्य तत्र ।
स चापि तान्प्रेक्ष्य किरीटमाली
ननन्द राजानमभिप्रशंसन् ॥
यमास्थितः सप्त जघान पूगान्
दितेः सुतानां नमुचेर्निहन्ता ।
तमिन्द्रवाहं समुपेत्य पार्थाः
प्रदक्षिणं चक्रुरदीनसत्वाः ॥
ते मातलेश्चक्रुरतीव हृष्टाः
सत्कारमग्र्यं सुरराजतुल्यम् ।
सर्वं यथावच्च दिवौकसङ्घं
पप्रच्युरेनं कुरुराजपुत्राः ॥
तानप्यसौ मातलिरभ्यनन्द-
त्पितेव पुत्राननुशिष्य पार्थान् ।
ययौ रथेनाप्रतिमप्रभेण
पुनः सकाशं त्रिदिवेश्वरस्य ॥
गते तु तस्मिन्वरदेववाहे
शक्रात्मजः सर्वरिपुप्रमाथी ।
`साक्षात्सहस्राक्ष इव प्रतीतः
श्रीमान्स्वदेहादवमुच्य जिष्णुः' ॥
शक्रेण दत्तानिददौ महात्मा
महाधनान्युत्तमरूपवन्ति ।
दिवाकराभाणि विभूषणानि
प्रीतः प्रियायै सुतसोममात्रे ॥
ततऋः स तेषां कुरुपुङ्गवानां
तेषां च सूर्याग्निसमप्रभाणाम् ।
विप्रर्षभाणामुपविश्य मध्ये
सर्वं यथावत्कथयांबभूव ॥
एवं मयाऽस्त्राण्युपशिक्षितानि
शक्राच्च वायोश्च शिवाच्च साक्षात् ।
तथैव शीलेन समाधिना च
प्रीताः सुरा मे सहिताः सहेन्द्राः ॥
संक्षेपतो वै स विशुद्धकर्मा
तेभ्यः समाख्याय दिवःप्रवेशम् ।
माद्रीसुताभ्यां सहितः किरीटी
सुष्वाप तामावसतिं प्रतीतः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट््षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
3-166-1 हरिभिरश्वैः संप्रयुक्तम् । महेन्द्रस्य वाहं रथम् ॥ 3-166-5 प्रह्वो नम्रः । उपह्णरे समीपे ॥ 3-166-7 पूगान्यूथानि ॥ 3-166-8 एनं मातलिम् ॥ 3-166-11 सुतसोमो भीमाद्द्रौपद्यां जातः ॥ 3-166-14 आवसतिं रात्रिम् । प्रतीतो हृष्ठः ॥