अध्यायः 170

अस्त्रविद्यासमाप्तौ सहस्राक्षेण गुरुदक्षिणात्वेन निवातकवचानां क्षपणं भिक्षितेनार्जुनेन तदर्थं प्रस्थानम् ॥ 1 ॥

अर्जुन उवाच ।
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत् ॥
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
`अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः' ॥
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः ।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ॥
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय ।
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ॥
तव गुर्वर्थकालोऽयं समुत्पन्नः परंतप ।
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ॥
ततोऽहमब्रवं राजन्देवराजमिदं वचः ।
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ॥
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा ।
नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥
निवातकवचा नाम दानवा मम शत्रवः ।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।
तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥
ततो मातलिसंयुक्तं मयूरसमरोमभिः ।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् ।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥
अभेद्यं कवचं चेदं स्पर्सरूपवदुत्तमम् ।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥
ततः प्रायामहं तेन स्यन्दनेन विराजता ।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥
ततो देवाः सर्व एव तेन घोषेण बोधिताः ।
मन्वाना देवराजं मां समाजग्मुर्विशांपते ॥
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ।
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ॥
निवातकवचानां तु प्रस्थितं मां तधैपिणम् ।
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ॥
`ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते' ।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ॥
रथेनानेन मघवा जितवाञ्शम्बरं युधि ।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि ।
रथेनानेन दैत्यानां जितवान्मघवा युधि ॥
न्वमप्यनेन कौन्तेय निबातकवचान्रणे ।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥
अयंच शङ्खप्रवरो येन जेतासि दानवान् ।
अनेन विजिता लोका शक्रेणापि महात्मना ॥
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम् ।
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ॥
स शङ्खी कवची वाणी प्रगृहीतशरासनः । दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

3-170-6 पञ्चभिः प्रयोगादिभिः ॥ 3-170-7 आवृत्तिः पुनःपुनः प्रयोगोपसंहारौ । प्रायश्चित्तं अस्त्राग्निना दग्धानामनागसां पुनरुज्जीवनम् । प्रतीघातं परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनम् ॥ 3-170-8 गुर्वर्यो दक्षिणा । वेत्स्यामि वेदयिष्यामि । परं कार्यमिति शेषः ॥ 3-170-9 विषह्यं शक्यम् ॥ 3-170-16 प्रायां प्रयाणं कृतवान् ॥ 3-170-19 आशास्त आशाध्वम् ॥