अध्यायः 173

अर्जुनेन दिव्यास्त्रैर्मायानिरसनपूर्वक् दैत्यहननम् ॥ 1 ॥

अर्जुन उवाच ।
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः ।
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत् ॥
तदहं वज्रसंकाशैः शरैरिनद्रास्त्रचोदितैः ।
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥
चूर्ण्यमानेऽश्मवर्षे तु यावकः समजायत ।
तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव ॥
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीनममान्तिके ॥
नभस प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥
धाराणां च निपातेन वायोर्विष्फूर्जितेन च ।
गर्जितेन च मेघानां न प्राज्ञायत किंचन ॥
धारा दिवि च संबद्धा वसुधायां च सर्वशः ।
व्यामोहयन्त मां तत्रनिपतन्त्योऽनिशं भुवि ॥
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।
दीप्तं प्राहिणवं घोरमशुप्यत्तेन तज्जलम् ॥
हतेऽश्मवर्षे च मया जलवर्षे च शोषिते ।
मुमुचुर्दानवा मायामग्निं वायुं च भारत ॥
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।
शैलेन च महास्त्रेण वायोरवेगमधारयम् ॥
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः ।
प्राकुर्वन्विविधां मायां यौगपद्येन भारत ॥
ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम् ।
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम् ॥
सा तु मायामयी वृष्टिः पीडयामास मां युधि ।
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥
तमसा संवृतेलोके घोरेण परुषेण च ।
हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि ।
असकृच्चाह मां भीतः किं करिष्याव इत्यपि ॥
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि ।
स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत् ॥
सुराणामसुराणां च संग्रामः सुमहानभूत् ।
अमृतार्थं पुरा पार्त स च दृष्टो मयाऽनघ ॥
शम्बरस्य वधे घोरः संग्रामः सुमहानभूत् ।
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥
तथैव वृत्रस्य वधे संगृहीता हया मया ।
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥
एते मया महाघोरः संग्रामाः पर्युपासिताः ।
न चापि विगतज्ञानो भूतपूर्वोस्मि पाण्डव ॥
पितामहेन संहारः प्रजानां विहितो ध्रुवम् ।
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।
मोहयिष्यन्दानवानामहं मायाबलं महत् ॥
अब्रुवं मातलिं भीतं पश्य मे बुजयोर्बलम् ।
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च ॥
अद्यास्त्रमाययैतैषां मायामेतां सुदारुणाम् ।
विनिहन्मि तमश्चोग्रं मा भैः सूत स्तिरो भव ॥
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप ।
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम् ॥
पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः ।
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥
सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः ।
व्यचरत्स्यन्दनाग्र्येण संग्रामे रोमहर्षणे ॥
ततः पर्यपतन्नुग्रा निवातकवचा मयि ।
तानहं विवरं दृष्ट्वा प्राहण्वं यमसादनम् ॥
वर्तमाने तथा युद्धे निवातकवचान्तके ।
नापश्यं सहसा सर्वान्दानवान्मायया वृतान् ॥

3-173-1 नगमात्रैः वृक्षप्रमाणैः ॥ 3-173-3 पावकप्रकराः वह्निराशयः ॥ 3-173-19 वैरोचनेः बलेः ॥ 3-173-26 पीड्यमानासु नश्यमानासु ॥