अध्यायः 013

कृष्णेन युधिष्ठिरंप्रति तद्व्यसनस्य द्वारकायां स्वस्यासांनिध्यहेतुकत्वकथनेन समाश्वासनम् ॥ 1 ॥

वासदेव उवाच ।
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ॥
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः । आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ॥
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ॥
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ॥
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा ।
अतर्कितविनाशश्च देवनेन विशांपते ॥
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ॥
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ॥
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥
अथैनमविनीतेन सुहृदो नाम दुर्हृदः ।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ॥
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ॥
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः ।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते ॥
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ । सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ॥

इति श्रीमन्महाभारते अरण्यपर्वणइ अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

3-13-4 अहं तत्र द्यूते दोषान् अचक्षं व्यक्तं कथितवान् स्यामित्यर्तः ॥ 3-13-5 वीरसेनसुतः नलः । यैः अक्षैरिति शेषः ॥ 3-13-6 सातत्यमविच्छेदम् । प्रसङ्गस्य द्यूतक्रीडायाः हीयमानोऽपि जयाशया पुनःपुनर्दीव्यत्येवेत्यर्थः ॥ 3-13-13 अपनीतेनेतिपाठे अन्यायेन । दुरोदरान् द्यूतकारान् ॥ 3-13-15 एत्यागत्य । युयुधानात्सात्यकेः ॥