अध्यायः 175
निवातकवचवधानन्तरं स्वर्गंप्रत्यागच्छताऽर्जुनेन मध्येमार्गं
हिरण्यपुरावलोकनम् ॥ 1 ॥ ततस्तद्वासिनां पौलोमानां कालकेयानां च वधानन्तरं
पुनः स्वर्गं प्रत्यागमनम् ॥ 2 ॥
निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥
रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः ।
पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम् ॥
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥
द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम् ।
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥
तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम् ।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥
मातलिरुवाच ।
पुलोमा नाम दैतेयी कालका च महासुरी ।
दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः ॥
तपसोन्ते ततस्ताभ्यां स्वयंभूरददाद्वरम् ।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ।
पुरं सुरमणीयं च स्वचरं सुकृतप्रभम् ॥
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥
सर्वकामगुणोपेतं वीतशोकमनामयम् ।
ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥
तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम् ।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥
हिरण्यपुरमित्येवं ख्यायते नगरं महत् ।
रक्षितंकालकेयैश्च पौलोमैश्च महासुरैः ॥
त एतेमुदिता राजन्नवध्याः सर्वदैवतैः ।
निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः ॥
`सुरासुरैरवध्यानां दानवानां धनञ्जय' ।
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥
[एतानपि रणे पार्त कालकेयान्दुरासदान् ।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्] ॥
अर्जुन उवाच ।
सुरासुरैरवध्यं तदहं ज्ञात्वा विशांपते ।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः ।
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥
तदहं शस्त्रवर्षेण महता प्रत्यवारयम् ।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥
तेषामेवं विमूढानामन्योन्यमभिधावताम् ।
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥
ततोऽहं शरवर्षेण महता कुरुनन्दन ।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते ।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥
अमरावतिसंकाशं तत्पुरं कामगं महत् ।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परंतप ॥
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च ।
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥
विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥
ततो मातलिरारुह्यपुरस्तान्निपतन्निव ।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ।
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥
ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम् ।
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः ।
प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥
विचित्रमुकुटापीडा विचित्रकवचध्वजाः ।
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे ।
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि ।
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥
`ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः ।
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ ।
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥
एतच्छ्रुत्वा तु राजेनद्रसंप्रहृष्टस्तमूचिवान् ।
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः ।
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि ।
अस्माभिः समरे भग्न इत्येवं संघशस्तदा ॥
ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये ।
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने' ।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ।
`महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्' ॥
`ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।
त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम् ।
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् ।
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे ।
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।
मृगाणामथ सिंहानां व्याग्राणां च विशांपते ॥
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ।
शरभाणां गजानां च वानराणां च सङ्घशः ।
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ।
गृध्राणां गरुडानां च चमराणां तथैव च ॥
देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः ।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥
गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च ।
झषाणां गजवक्राणामुलूकानां तथैव च ॥
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् ।
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥
एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा ।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः ।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः ॥
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः ।
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् ।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् ।
निशाम्य परमं हर्षमगमद्देवसारथिः ॥
तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥
उचाच वचनं चेदंप्रीयमाणः कृताञ्जलिः ।
`हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ।
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ।
`ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन' ॥
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् ।
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥
अर्जुन उवाच ।
विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च ।
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः ।
पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले ॥
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः ।
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् ।
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥
गन्धर्वनगराकारं हृतनागमिव ह्रदम् ।
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् ।
देवराजस्य भवनं कृतकर्माणमाहवात् ॥
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान् ।
निवातकवचांश्चैव ततोऽहंशक्रमागमम् ॥
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् ।
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥
हिरण्यपुरघातं च मायानां च निवारणम् ।
निवातकवचानां च वधं सङ्ख्ये महौजसाम् ।
`कालकेयवधं चैव अद्भुतं रोमहर्षणम्' ॥
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः ।
मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत् ।
`परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्' ॥
ततो मां देवराजो वै समाश्वास्य पुनः पुनः ।
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥
अतिदेवासुरं कर्म कृतमेव त्वया रणे ।
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय ।
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥
अविषह्यो रणे हि त्वं देवदानवराक्षसैः ।
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् ।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि
पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
3-175-12 खपुरं खचरत्वात् ॥ 3-175-18 न वध्या इति न अपितु
वध्या एव ॥ 3-175-33 आरुह्य गगनमुत्पत्य । अवातरत् अवतीर्णः ॥ 3-175-34
पर्यवर्तन्त परिवार्य अवर्तन्त । गार्द्रराजितैः गृध्रपत्रशोभितैः ॥ 3-175-35
युद्धे निमित्ते सति संन्यवर्तन्त । इमे वयमिति शेषः । रयुद्धेन जेतुमिति शेषः ॥ 3-175-61 मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥ 3-175-63 निबर्हणैर्नाशकरैः ॥ 3-175-65 निशाम्य दृष्ट्वा ॥