अध्यायः 180

वने मृगयार्थमटतो भीमस्य महताऽजगरेण ग्रहणम् ॥ 1 ॥

जनमेजय उवाच ।
कथं नागायुतप्राणो भीमो भीमपराक्रमः ।
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥
पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः ।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम् ॥
तं संससि भयाविष्टमापन्नमरिसूदनम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
वैशंपायन उवाच ।
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः ॥
यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः ।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥
चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान् ॥
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः ।
सलिलैर्हिमसंकाशैर्हंसकारण्डवायुतैः ॥
वनानि देवदारूणां मेघानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥
मृगयां परिधावन्स समेषु मरुधन्वसु ।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः ॥
भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् ।
निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः ॥
मृगाणां सवराहाणां महिषाणां महाभुजः ।
विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः ॥
स मातङ्गशतप्राणो मनुष्यशतवारणः ।
सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥
वृक्षानुत्पाटयामास तरसा वै बभञ्ज च ।
पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च ॥
पर्वताग्राणि वै मृद्गन्नादयानश्च विज्वरः ।
प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् ॥
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः । आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन् ।
चिरसंबद्धदर्पस्तु भीमसेनो वने तदा ॥
गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः ।
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ॥
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा ।
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ॥
स तत्रमनुजव्याघ्रो वने वनचरोपमः ।
पद्भ्यामभिसमापेदे भीमसेनो महाबलः ॥
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् ।
त्रासयन्सर्वभूतानि महासत्वपराक्रमः ॥
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः । अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः ।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥
स ददर्श महाकायं भुजङ्गं रोमहर्षणम् ।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः ।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम् ॥
गुहाकारेण वक्रेण चतुर्दंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥
त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥
स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा ।
संज्ञा मुमोह सहसा वरदानेन तस्य हि ॥
दशनागसहस्राणि धारयन्ति हि यद्बलम् ।
इद्रलं भीमसेनस्य भुजयोरसमं परैः ॥
स तेजस्वी तथा तेन भुजगेन वशीकृतः ।
विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे । न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

3-180-10 तुङ्गं कालीयकं च काष्ठविशेषौ ॥ 3-180-11 मरुधन्वसु गिरेर्निर्जलप्रदेशेषु । मरुर्ना गिरिधन्वनोरिति मेदिनी ॥ 3-180-24 पर्वतस्याभोगः विस्तीर्णता तत्परिमाणं वर्ष्म शरीरं यस्य तम् ॥ 3-180-27 पृदाकुः सर्पः ॥ 3-180-31 सत्वं बुद्धिम् ॥