अध्यायः 181

अजगरेण भीमंप्रति स्वस्याजगरत्वप्रापककारणाभिधानम् ॥ 1 ॥ दुर्निमित्तदर्शनाद्दुर्मनायमानेन युधिष्ठिरेण भीममार्गानुसरणएनाज्जगरगृहीतभीमस्य दर्शनम् ॥ 2 ॥

वैशंपायन उवाच ।
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥
उवाच च महासर्पं कामयाब्रूहि पन्नग ।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।
समागताश्च बहुशो निहताश्च मया युधि ॥
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥
किंनु विद्याबलं किंनु वरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया ॥
अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः ।
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।
भोगेन महता गृह्य समन्तात्पर्यवेष्टयत् ॥
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा ।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां ॥
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम ।
तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम ॥
इमामवस्थां संप्राप्तो ह्यहं कोपान्महर्षिणा ।
शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत् ॥
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः ॥
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः ।
गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम ॥
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥
`यस्त्वया वेष्टितो राजन्मोहमेति महाबलः' ।
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥
ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित् ।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥
गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः ।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥
इतिचाप्यहमश्रौषं वचस्तेषां दयावताम् ।
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥
सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्यकालाकाङ्क्षी महाद्युते ॥
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् ।
न ते कुप्ये महासर्प नात्मने द्विजसत्तम ॥
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः ॥
दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥
किंतु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम् ।
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः ।
मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः ॥
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥
अथवा नार्जुनो धीमान्विषादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥
समर्थः स महाबाहुरेकाङ्ना सुमहाबलः ।
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥
किं पुनर्धृतराष्ट्रस् पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम् ।
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ ।
मद्वाहुबलसंगुप्तौ नित्यं पुरुषमानिनौ ॥
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥
एवंविधं बहु तदा विललाप वृकोदरः ।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः ।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा ॥
प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति ।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥
हृदयं चरणश्चापि वामोऽस्य परितप्यति ।
सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत ॥
धर्मराजोपि मेधावी शङ्कमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।
मृगयामास कौन्तेयो भीमसेनं महावने ॥
स प्राचीं दिशमास्थाय महतो गजयूथपान् ।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥
ततो मृगसहस्राणि मृगेनद्राणां शतानि च ।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः ॥
धावतस्तस्य वीरस् मृगार्थं वातरंहसः ।
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः ॥
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।
[रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले ॥
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले । अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे ।]
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आजागरपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

3-181-2 कामया इच्छातः ॥ 3-181-8 भोगेन देहेन ॥ 3-181-15 उपयोक्ष्यामि भक्षितुगिच्छामि । विधानं दैवम् ॥ 3-181-16 षष्ठे कालेऽष्टधाविभक्तस्याह्नो भागे ॥ 3-181-20 स्मार्तं स्मृतिविषयम् । पुराणं चिरकालीनमपि स्मरामीत्यर्थः ॥ 3-181-21 विभागविदात्मानात्मविवेकवित् ॥ 3-181-26 कदाचिदभावी सामर्थ्यहीनः कदाचित् भावी सामर्थ्यवान् अवश्यं भवति ॥ 3-181-31 परुषोक्तिभिरिति सेषः ॥ 3-181-42 वर्तिका पक्षिविशेषः ॥ 3-181-44 दक्षिणो भुज स्फुरतीति भविष्यतोऽनिष्टप्रशमनस्य लिङ्गम् ॥ 3-181-45 विकारः स्फुरणम् ॥ 3-181-50 यूथपान्पतितान्ददर्शेत्यन्वयः ॥ 3-181-54 ईरिणे ऊषरे । क्षुपाः ह्रस्ववृक्षाः ॥