अध्यायः 182

युधिष्ठिराजगरयोः संवादः ॥ 1 ॥

वैशंपायन उवाच ।
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत् ॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम् ॥
[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान् ।
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः ॥
युधिष्ठिर उवाच ।
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम् ॥
सर्प उवाच ।
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत् ॥
व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत् ।
स म भक्षो भवेत्तात त्वं चापि विषये मम ॥
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव । नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ॥]
युधिष्ठिर उवाच ।
देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम । किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम ।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥
सर्प उवाच ।
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥
क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च ॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिविकां मम ॥
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान् ।
इमामगस्त्येन दशामानीत इतिमे स्मृतिः ॥
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये ॥
प्रश्नानुच्चारितानद्य वायहरिष्यसि चेन्मम ।
तथापश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥
युधिष्ठिर उवाच ।
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम् ॥
वेद्यंच ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥
सर्प उवाच ।
ब्राह्मणः को भवेद्राजन्वेद्यं किंच युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनिमिनोमि ते ॥
युधिष्ठिर उवाच ।
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः ॥
वेद्यं सर्प परं ब्र्हम निर्दुःखमसुखं च यत् ।
यत्रगत्वा न शोचन्ति भवतः किं विवक्षितं ॥
सर्प उवाच ।
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥
युधिष्ठिर उवाच ।
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।
तत्रैतन्न वेत्सर्प तं शूद्रमिति निर्दिशेत् ॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति च ।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि ॥
एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥
सर्प उवाच ।
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।
वृथा जातिस्तदायुष्मन्कृतिर्यावन्न विद्यते ॥
युधिष्ठिर उवाच ।
जातिरत्रमहासर्प मनुष्यत्वे महामते ।
संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥
प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते । `तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम्' ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥
वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते ।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत् ॥
कृतकृत्याः सर्ववर्णा यदि वृत्तं न पश्यति ।
संकरस्त्वत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥
सर्प उवाच ।
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर । भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

3-182-4 प्राणवान्वायुभक्षः सर्पइव नतु सर्पः ॥ 3-182-28 ताभ्यां हीनं न विद्यते इति झ. पाठः ॥ 3-182-29 हीनं नास्ति पदं क्वचित् इति झ. पाठः ॥ 3-182-33 प्रधानं तदिष्टं चेति कर्मधारयः ॥ 3-182-34 नाभिवर्धनान्नालच्छेदनात् ॥ 3-182-36 यदि वृत्तं न विद्यते इति झ. पाठः । यदि वृत्तं न नश्ति इति ख. पाठः । यदि वृत्तं न दूष्यते इति ध. पाठः ॥