अध्यायः 183
स्वप्रश्नस्योत्तरदानतुष्टेनाजगररूपिणा नहुषेण युधिष्ठिरंप्रति स्वस्याजगरभावसंभवहेतुकथनपूर्वकं भीमं विमुच्य पुनः स्वर्गं प्रति गमनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ 1 ॥
सर्प उवाच ।
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥
युधिष्ठिर उवाच ।
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥
सर्प उवाच ।
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥
क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेनद्र क्वचिद्दानं विशिष्यते ॥
एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥
युधिष्ठिर उवाच ।
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे ॥
सर्प उवाच ।
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा ॥
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥
क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः ।
मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते ॥
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥
सोयमेता गतीस्तात जन्तुश्चरति कार्यवान् ।
निम्ने महति चात्मानमवस्थाप्य च वै नृप ॥
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥
युधिष्ठिर उवाच ।
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥
किं न गृह्णासि विषयान्युगपत्त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥
सर्प उवाच ।
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि ॥
ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥
मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः ॥
तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते ॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम् ॥
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥
युधिष्ठिर उवाच ।
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥
सर्प उवाच ।
बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत् ॥
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि ।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् ।
त्वमप्यत्राभिसंबुद्धः कथं वा मनय्से स्वयम् ॥
युधिष्ठिर उवाच ।
अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि ॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥
सर्प उवाच ।
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥
सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् ॥
कृतंकार्यं महाराज त्वया मम परंतप ।
क्षीणः शाप सुकृच्छ्रो मे त्वया संभाष्य साधुना ॥
अहं हि दिवि दिव्येन विमानन चरन्पुरा ।
अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् ॥
ब्रह्मर्षिदेघगन्धर्वयक्षराक्षसपन्नगाः ।
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम ॥
ब्रह्मर्षीणां सरस्रं हि उवाह शिबिकां मम ।
कस मामपनयो राजन्भ्रंशयामास वै श्रियः ॥
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः ।
अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वैरुषा ॥
ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः ।
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।
प्रमादात्संप्रमूढस्य भगवन्क्षन्तुमर्हसि ॥
ततः स मामुवाचेदं प्रपतन्तं कृपानवितः ।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥
अभिमानस्य वै तस्य बलस्य च नराधिप ।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम् ॥
सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता ।
साधकानि सतां पुंसां न जातिर्नकुलं नृप ॥
अरिष्ट कएष ते भ्राता मुक्तो बीमो महाभुज ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥
`स चायं पुरुषव्याघ्र कालः पुण्य उपागतः ।
तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम्' ॥
वैशंपायन उवाच ।
`ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै ।
अवपातेन महता तत्रावाप तदुत्तमम्' ॥
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥
युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन संगतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत् ॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥
ते तु सर्वेद्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस् साहसम् ॥
पाण्डवास्तु भयान्पुक्तं प्रेक्ष्य भीमं महाबलम् ।
हर्षमाहारयांचक्रुर्विजह्रुश्च मुदा युताः ॥
3-183-4 गुरुलाघवं गौरवं लाघवं चेत्यर्थः ॥