अध्यायः 186

मार्कण्डेयेन युधिष्ठिरादीन्प्रति प्राणिनां सुकृतदुष्कृतफलभोगादिप्रकारनिरूपणम् ॥ 1 ॥

वैशंपायन उवाच ।
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम् ।
कथासंजननार्थाय चोदयामास पाण्डवः ॥
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् ।
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ॥
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम् ।
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम् ।
धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः ॥
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा ।
स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः ॥
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर ।
इह वा कृतमन्वेति परदेहेऽथवा पुनः ॥
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः ।
कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम ॥
ऐहलौकिकमेवैतदुताहो पारलौकिकम् ।
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥
मार्कण्डेय उवाच ।
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर ।
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ॥
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु ।
यथेहामुत्र च नर सुखदुःखमुपाश्नुते ॥
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् ।
ससर्ज धऱ्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥
अमोघफलसंकल्पाः सुव्रताः सत्यवादिनः ।
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ॥
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ।
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥
स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः ।
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ॥
द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम् ।
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ॥
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः ।
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥
अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः ।
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः ।
`काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः' ॥
सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः ।
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः । भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ।
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ॥
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः ।
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् ।
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥
अयमादिशरीरेण देवसृष्टेन मानवः ।
शुभानामशुभानां च कुरुते संचयं महत् ॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम् ।
संभवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ॥
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा ।
फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते ॥
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः ।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर ।
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥
मनुष्यास्तप्ततपसः सर्वागमपरायणाः ।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः ।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः ।
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ॥
च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः ।
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः । कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ।
`कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ' ॥
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः ।
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ॥
इमामत्रोपमां चापि निबोध वदतांवर ।
मनुष्यलोके यच्छ्रेयः परंमन्ये युधिष्ठिर ॥
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह चामुत्र चैकस् नामुत्रैकस्य नो इह ॥
धनानि येषां विपुलानि सन्ति नित्यंरमन्ते सुविभूषिताङ्गाः ।
तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम् ॥
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् ।
जितेन्द्रिया भूतहिते निविष्टा स्तेषामसौ नायमरिघ्नलोकः ॥
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले ।
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ॥
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते ।
न चापिगच्छन्ति शुभान्यभाग्या- स्तेषामयं चैव परश्च नास्ति ॥
सर्वे भवन्तस्त्वतिवीर्यसत्वा दिव्यौजसः संहननोपपन्नाः ।
लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ॥
कृत्वैव कर्माणइ महान्ति शूरा- स्तपोदमाचारविहारशीलाः ।
देवानृषीन्प्रेतगतांसच् सर्वा- न्संतर्पयित्वा विधिना परेण ॥
स्वर्गं परं पुण्यकृतां निवासं क्रमेण संप्राप्स्यथ कर्मभिः स्वैः ।
माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

3-186-4 ऋष्यतः समृद्धियुतान् ॥ 3-186-9 स्थित्यर्थं लोकरक्षार्थम् । वेदितव्यं ते स्मृत्यर्थमनुपच्छसीति ध. पाठः ॥ 3-186-17 माया कूटकार्षापणादिः व्याजं दम्भः तदेवोपजीवन्ति नतु धर्मम् । ते मायाव्याजोपजीविनः ॥ 3-186-21 नाथन्तः प्रार्थयमानाः । कामानां कामान् ॥ 3-186-23 अनुनयं सिद्धान्तम् ॥ 3-186-24 शरीरेण मानवो विधिसंयुतः इति क. पाठः ॥ 3-186-38 जितेन्द्रियाः प्राणिवधे निवृत्ताः इति झ. पाठः ॥ 3-186-40 प्रजने पुत्रोत्पादने ॥