अध्यायः 191

मार्कण्डेयेन युधिष्ठिरादीन्प्रति कृतादियुगचतुष्टयधर्मकथनपूर्वकं प्रलयवर्णनम् ॥ 1 ॥ तथा प्रलयजले परिप्लवता मार्कण्डेयेन वटशाखाशायिनः शिशुरूपस्य हरेरुदरान्तःप्रविश्य ब्रह्माण्डदर्शनपूर्वकं पुनर्वहिर्निर्गमनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम् ।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ॥
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम् ।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥
अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः ।
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ॥
नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे ॥
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत् । कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः ।
रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ॥
तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी ।
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥
शयानममितात्मानं पद्मे पद्मनिकेतनम् ।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥
एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम ।
तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां ॥
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥
मार्कण्डेय उवाच ।
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे । पुरुषाय पुराणाय शाश्वतायाव्ययाय च ।
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ॥
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ॥
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते ।
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ॥
एष कर्ता न क्रियते कारणं चापि पौरुषे ।
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ॥
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं ॥
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥
सन्ध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय ।
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ॥
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ।
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ॥
विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते ।
लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः ॥
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा ।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ॥
निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः ।
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ।
मृषानुशासिनः पापा मृषावादपरायणाः ॥
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।
काम्भोजा बाह्लिकाः शूरास्तथाऽऽभीरा नरोत्तमा ॥
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ॥
अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः ।
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ॥
बहुशून्या जनपदा मृगव्यालावृता दिशः ।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ॥
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ।
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ॥
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते ।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥
बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः ।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप ।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥
ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम् ।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥
कराभारभयाद्भीता गृहस्थाः परिमोषकाः ।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ॥
मित्या च नखरोमाणि धारयन्ति तदा द्विजाः ।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥
आश्रमेषु वृथाचार पारपा गुरुतल्पगाः ।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥
`पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः' । बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः ।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥
यथर्तुवर्षी भगवान्न तथा पाकशासनः ।
न चापि सर्वभीजानि सम्यग्रोहन्ति भारत ॥
फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते । हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः ।
अधर्मफलमत्यर्थं तदा भवति चानघ ॥
तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः ।
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ॥
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा ।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥
नगराणआं विहारेषु विधर्माणो युगक्षये ।
अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत ॥
संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः ।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ॥
हर्तुं व्यवसिता राजन्पापाचारसमनविताः ।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥
पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा ।
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा ।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः ।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥
विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन् ।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप ।
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ॥
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये ।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥
ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै ।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥
यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥
ततः संवर्तको वह्निर्वायुना सह भारत ।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥
ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
रदेवदानवयक्षाणां भयं जनयते महत् ॥
निरदहन्नागलोकं च यच्च किंचित्क्षिताविह ।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥
ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥
ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः ।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥
केचिद्धारिद्रसंकाशाः कारण्डवनिभास्तथा ।
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ॥
केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।
केचिदञ्जनसंकाशाः केचिन्मकरसन्निभाः ॥
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ।
घोररूपा महाराज घोरस्वननिनादिताः ॥
ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम् ।
`गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः' ॥
तैरियं पृथिवी सर्वा सपर्वतवनाकरा ।
आपूर्यते महाराज सलिलौघपरिप्लुता ॥
ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् ।
सुघोरमशिवं रौद्रं नाशयनति च पावकम् ॥
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे ।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥
ततः समुद्रः स्वां वेलामतिक्रामति भारत ।
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ॥
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥
कततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप ।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणए यक्षराक्षसवर्जिते ॥
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ॥
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।
अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः ॥
ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप ।
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ॥
ततः कदाचित्पश्यामि तस्मिन्सलिलसंनिघौ ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥
उपविष्टं महाराज पद्मेन्दुसदृशाननम् ।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥
ततो मे पृतिवीपाल विस्मयः सुमहाभूत् ।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ॥
अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः ।
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ॥
ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ॥
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम ।
आस्खेह विहितो वासः प्रसादस्ते कृतो मया ॥
ततो बालेन तेनैव मुक्तस्यासीत्तदा मम ।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥
ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।
तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः ॥
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।
चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम् ॥
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम् ।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥
वितस्तां च महाराज कावेरीं च महानदीम् । `तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्' ।
शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि ॥
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥
ततः समुद्रं पश्मामि यादोगणनिषेवितम् ।
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ॥
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ॥
पश्यामि च महीं राजन्काननैरुपशोभिताम् ।
`सपर्वतवनद्वीपां निम्नगाशतसंकुलाम् ॥
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः ।
क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ॥
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥
निषधं चापि पश्यामि श्वेतं च रजतान्वितम् ।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।
पश्यामि च महाराज मेरु कनकपर्वतम् ॥
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥
एते चान्ये च बहवो यावन्तः पृथिवीधराः ।
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ॥
सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप । पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥
कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः ।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ॥
साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा ।
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ॥
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते ।
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ॥
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ।
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ॥
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः ।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ॥
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम् । 3-191-b124 न च पश्यामि यस्याहं देहस्यान्तं कदाचन ॥
सततं धावमानश्च चिन्तयानो विशांपते । `भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्' ।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥
ततस्तमेव शरणं गतोस्मि विधिवत्तदा ।
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥
ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते ।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥
ते नैव बालवेषेण श्रीवत्सकृतलक्षणम् ।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव ।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम ।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ॥
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ॥
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ॥
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ ।
दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः ॥
विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह ।
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम् ।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ॥
आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव ।
दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते ॥
तव देव शरीरस्था देवदानवराक्षसाः ।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ॥
निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो ।
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं ॥
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया । त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम् ।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः । सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मर्कण्डेयसमास्यापर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

3-191-4 अनन्तरिक्षे लोके इति झ. पाठः ॥ 3-191-6 चतुर्विधानि जरायुजाण्डजस्वेदजोद्भिज्जानि ॥ 3-191-9 नारायणास्य अङ्कः स्थानं समीपं वा । तत्र प्रख्यः प्रख्यातः भगवद्भक्तेषूत्तमः । सांपराये परलोके अतिपठ्यसे अत्यन्तं स्तूयसे । लोकैरिति शेषः ॥ 3-191-10 विष्णोर्ब्रह्मणः उपलब्धिस्थानत्वेन संबन्धिकर्णिकोद्धरणं कृत्वा योगकलया हृदयपुण्डरीकमुद्घाट्येत्यर्थः । रत्वया दृग्भ्यां भगवाननेकशोऽनेकवरि दृष्ट इत्यन्वयः । रत्नानि तत्तज्जात्युत्कृष्टवस्तूनि तेषां अलकारो निवारणक्रिया । परं वैराग्यमिति यावत् । योगः अभियोगोऽभ्यासः । वैराग्याभ्यासाभ्यामित्यर्थः ॥ 3-191-11 तव त्वां न विशतीत्यपकृष्यते ॥ 3-191-12 शेषं अवशिष्टम् । पञ्चमहाभूतप्रलये सतीत्यर्थः ॥ 3-191-15 एतत्सर्वं त्वया दृष्टमिति शेषः ॥ 3-191-17 स्वयंभुवे अजन्मने । पुरुषाय पूर्णाय । पुराणाय नित्यैकरूपाय । शाश्वताय अनादये । अव्ययाय नित्याय ॥ 3-191-20 यद्येष पुरुषो वेद चेदा अपि इति झ. पाठः ॥ 3-191-22 तावच्छती चतुःशती । सन्ध्या पूर्वस्मिन् युगे उत्तरयुगधर्माणामुपसर्जनतया संक्रमः । सन्ध्यांशस्तूत्तरस्मिन् पूर्वयुगधर्माणाम् । तथाविध उत्तरप्रकारस्त्रिशतीमितोयमेव पूर्वयुगापेक्षया सन्ध्यांश उत्तरयुगापेक्षया सन्ध्येति चोच्यते । तथाच कृतत्रेतयोः सन्ध्यासन्ध्यांशौ सप्तशती । त्रेताद्वापरयोः पञ्चशती । द्वापारकल्योस्त्रिशती । कलिकृतयोस्तु पञ्चशतीति विज्ञेयम् । एवं च कृतस्यादौ चतुःशती कल्यपेक्षया सन्ध्यांशोपि कृतापेक्षया सन्ध्या । एवं सर्वत्र । तेन सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणं भवति ॥ 3-191-31 तथा शूद्रधनार्जकाः इतिथ. पाठः ॥ 3-191-37 सत्येऽल्पं सत्याल्पम् । सत्यवादोऽत्यन्तमल्प इत्यर्तः ॥ 3-191-38 वृथा अनुभवाभावात् ॥ 3-191-41 मुखेभगाः प्रथमं मुखेनैव भगकार्यं कृत्वा पुरुषस् काममुद्दीपयन्त्यः । अत्यन्तं रतार्तत्वात् ॥ 3-191-42 अट्टमन्नं शिवो वेदो ब्राह्मणाश्च चतुष्पथाः । केशो भगं समाख्यातं शूलं तद्विक्रयं विदुरिति पूर्वेषां व्याख्यासंक्षेपः ॥ 3-191-45 मिथ्याधर्मः कपटधर्मः सएव ध्वजइव ख्यात्यर्थं ज्ञाप्यो येषां ते तथा चञ्चूर्यन्ते पीड्यन्ते । दिशः दिक््स्थाः जनाः ॥ 3-191-48 पानपाः मद्यपाः ॥ 3-191-56 नगराणां नगरस्थानाम् ॥ 3-191-57 आढ्योहमिति मदः आढ्यमदः ॥ 3-191-59 पुरुषादानि वृकव्याघ्रादीनि चैत्येष देवतास्थानेषु ॥ 3-191-63 अर्हतः योग्यान् ॥ 3-191-86 ततस्तं सलिलं घोरं इति क. ध. पाठः ॥