अध्यायः 015

कृष्णेन युधिष्ठिरंप्रति साल्वसमागमसमये उग्रसेनकृतद्वारकारक्षणप्रकारकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
वासुदेव महाबाहो विस्तरेण महामते ।
सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः ॥
वासुदेव उवाच ।
हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप ।
उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम् ॥
अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन ।
साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः ॥
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् ।
अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥
पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।
सचक्रग्रहिणी चैव सोल्कालातावपोथिका ॥
सोष्टिका भरतश्रेष्ठ सभेरीपणवानका ।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला ॥
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निः सगुडशृङ्गिका ।
शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ ॥
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ।
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे ॥
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे । मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता ।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः ॥
आघोषितं च नगरे न पातव्या सुरेति वै ।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥
प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः ।
इति कृत्वाऽप्रमत्तास्ते सर्वेवृष्ण्यन्धकाः स्थिताः ॥
आनर्ताश्च तथा सर्वे नटनर्तकगायकाः ।
बहिर्निर्वासिताः सर्वे रक्षद्भिर्वित्तसंचयम् ॥
संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः ।
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः । समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ।
`संक्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः ॥'
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् ।
प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ ॥
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् ।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते ।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥
अनुरध्यासु सर्वासु चत्वरेषु च कौरव ।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् ।
कृतोपधानं च तदा बलमासीद्विशांपते ॥
न कृप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी ।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः । आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

3-15-1 कथ्यतः कथयतः ॥ 3-15-2 श्रुतश्रवा शिशुपालमाता ॥ 3-15-5 पताका ध्वजाञ्चलः । तोरणानि बहुर्द्वाराणि । चक्राणि योधगणाः । हुडास्तदाश्रयस्थानानि । यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि । खनकाः सुरंगद्वारा गुप्तमार्गकर्तारः ॥ 3-15-6 उपशल्या लोहमुखाः कीलास्तद्युक्ताः । प्रतोल्यो रथ्यामार्गा यस्यां सा । अट्टालकाः उपरिगृहाः । गोपुराणि पुरद्वाराणि । साट्टानि अट्टेन अनेन सहितानि अट्टालकादीनि यस्यां सा चक्र ग्रहणी सैन्यनिग्राहिका । सोल्कालातावपोथिका सोल्कमलातं ज्वालासहितमुल्मुकं यस्यां सोल्कालाता । अवबद्धाः पोथिकाः यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपरि पातनाय यस्यामिति प्राञ्चः । सकचग्रहिणी चैव इति क. ट. पाठः ॥ 3-15-7 उष्ट्रिका मृच्चर्ममयानि भाण्डानि । सर्ष्टिका साङ्कुशेति क. ट. पाठः । ऋष्टय आयुधविशेषाः ॥ 3-15-8 अश्मगुडकाः वर्तुलीकृताः पाणाणाः । लोहमयानि चर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि । साग्निः आग्नेयौषधसहिता । गुडा गोलकाः । शृङ्गिकास्तदुत्क्षेपकयन्त्राणि ॥ 3-15-9 समन्तात्परिपालिते इति क. पाठः ॥ 3-15-13 निवासिताः क्षिप्रं इति झ. पाठः ॥ 3-15-14 संक्रमा नदीसेतवः । कीलैः शूलैः । सुनिचिता व्याप्ताः ॥ 3-15-15 उदपानाः कूपाः । अम्बरीषो गुप्ताग्निः । विषमा लोहकण्टकाद्याकीर्णा ॥ 3-15-19 अनुरथ्यासु प्रतिरध्यम् ॥ 3-15-20 वेतनं धनम् । भक्तं नित्यभोजनम् । कृतोपधानं कृतविशेषम् ॥ 3-15-21 कुप्यं स्वर्णरूप्येतरद्धनं ताम्रादि । ग्रहो रणोद्यमस्तमनुलक्षीकृत्य भृतोऽनुग्रहभृतस्तत्कालस्वीकृतो न कश्चित् किंतु चिरसंभृता एव । नादत्तवेतनः कश्चित् इति क. ठ. पाठः ॥ 3-15-22 आहुकेन उग्रसेनेन । भूरिदक्षिणेति झ. पाठः ॥