अध्यायः 195

मार्कण्डेयेन युधिष्ठिरंप्रति ब्राह्मणमाहात्म्यप्रतिपादकमण्डूकोपाख्यानकथनारम्भः ॥ 1 ॥ इक्ष्वाकुवंशजेन परीक्षिन्नामकेन राज्ञा मृगयार्थं वनं प्रविष्टेन उदकादर्शनरूपसमयकरणेन मण्डूककन्यायाः परिणयः ॥ 2 ॥ राज्ञा समयातिलङ्घने तथा जले निमज्जनम् ॥ 3 ॥ तदन्वेषणाय राज्ञा मण्डूकहनने तापसरूपिणा मण्डूकराजेन तननिवारणएन तस्याः स्वपुत्रीत्वकथनादिपूर्वकं पुनस्तस्मै तस्याः प्रदानम् ॥ 4 ॥ मार्कण्डेयेन मण्डूकपुन्याः पुत्रयोः शलदलयोर्वृत्तकथनपूर्वकं वामदेवमुनिमाहात्म्यकथनम् ॥ 5 ॥

वैशंपायन उवाच ।
भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥
अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् ॥
अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परीक्षिन्नाम मृगयामगमत् ॥
स एकोऽश्वेन मृगमन्वसरत् मृगो दूरमपाहरत् ॥
अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन्देशे नीलं गहनं वनषण्डमपश्यत् ॥
तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥
अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश ततः शयानो मधुरंगीतमशृणोत् ॥
स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य स्वल्वयं गीतंशब्द इति ॥
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत् ॥
तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति ॥
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत् मण्डूकराजस्य कः समय इति ततः कन्येदमुवाच नोदकं मे दर्शयितव्यमिति ॥
स राजा तां बाढमित्युक्त्वा तां समागम्य तयासह तत्र तस्थौ ॥
ततस्तत्रैवासीने राजनि सा सेनाऽन्वगच्छत् ॥
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत अथ पर्याश्वस्तश्च राजा तयैव सह शिविकया प्रायादविषादः स्वनगरमनुप्राप्य रहसि तया रममाणो न कांश्चिदपश्यत् ॥
अथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत् ॥
किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः ॥
अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधोपलिप्तां स रहस्युपगम्य राजानमब्रवीत् ॥
वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति ॥
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्स कदाचित्तस्मिन्कानने रम्ये तयैव स व्यवाहरदथक्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तागारमपश्यत् ॥
तत्प्रविश्यराजा सह प्रियया सुसंस्कृतां विमलां सलिलपूर्णां वापीमपश्त् ॥
दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत् ॥
अथ ता देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति सा तद्वच श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदकादुदमज्जत् ॥
तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा ॥
सर्वमण्डूकवधः क्रियतामिति योमयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति ॥
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु रमण्डूकान्भयमाविवेश ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच ॥
मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति श्लोकौ चात्र भवतः ॥
मा मण्डूकाञ्जिघांसीस्त्वं कोपं संधारयाच्युत । प्रक्षिपन्ति वधाद्भेका जनानां परिजानताम् ॥
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे । अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥
तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजाऽथोवाच ॥
न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन्मामुपरोद्धुमिति ॥
स तद्वाक्यमुपलभ्यव्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम तस्या हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धपूर्वा इति ॥
तमब्रवीद्राजा या सा तव रदुहिता तया समर्थी सा मे दीयतामिति ॥
अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति ॥
स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति ॥
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोस्मीति ॥
स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत् ॥
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥
अथ कदाचिच्छलो मृगयामनुचरन्मृगमासाद्य रथेनान्वधावत् ॥
सूतं चोवाच शीघ्रं मां वाहयस्वेति स तथोक्त सूतो राजानमब्रवीत् ॥
न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाभ्यौ वाजिनौ त्वा पृच्छामीति ॥ स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ ॥ वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयादहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ॥
भगवन्मृगो मे विद्धः पलायते संभावयितुमर्हसि वाम्यौ दातुमिति तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यातयितव्यौ क्षिप्रमिति स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाजियुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतमश्वरत्नद्वयमावयोर्योग्यं नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ प्रतिनिर्यातयत्यहो कष्टमिति ॥
स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत् ॥
गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोगाध्यायवाम्याविति स गत्वैवं तं राजानमब्रवीत्तराजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां न किंचित् ब्राह्मणानामश्वैः कार्यं साधु गम्यतामिति ॥
स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा ॥
वामदेव उवाच ।
प्रपच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम् ।
मा त्वा वधीद्वरुणो घोरपाशै- र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥
राजोवाच ।
अनड्वाहौ सुव्रतौ साधु दान्ता- वेतद्विप्राणां वाहनं वामदेव ।
ताभ्यां याहि त्वं यत्र कामो महर्षे- च्छन्दांसि वै त्वादृशं संवहन्ति ॥
वामदवे उवाच ।
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति ।
अस्मिस्तु लोके मम यानमेत- दस्मद्विधानामपरेषां च राजन् ॥
राजोवाच ।
चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः ।
तैस्त्वं याहि रक्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि ॥
वामदेव उवाच ।
घोरं व्रतं ब्राह्मणस्यैतदाहु- रेतद्राजन्यदिहाजीवमानः ।
अयस्मया घोररूपा महान्त- श्चत्वारो वा यातुधानाः सुरौद्राः । मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतुर्धा ॥
राजोवाच ।
ये त्वां विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा ।
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥
[वामदेव उवाच ।
ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य मे त्वम् ।
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात् ॥
राजोवाच ।
न ब्राह्मणेभ्यो मृगया प्रसूता न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम् ।
तवैवाज्ञां संप्रणिधाय सर्वां तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥]
वामदेव उवाच ।
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा ।
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वां- स्तेन श्रेष्ठो भवति हि जीवमानः ॥
मार्कण्डेय उवाच ।
एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः ।
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥
इक्ष्वाकवो वा यदि मां त्यजेयु- र्ये ते विधेया भुवि चान्ये महीपाः ।
नोत्स्रक्ष्येऽहं वामदेवस् वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥
एवं ब्रुवन्नेव स यातुधानै- र्हतो जगामाशु महीं क्षितीशः ।
ततो विदित्वा नृपतिं निपातित- मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः ।
दलं राजानं ब्राह्मणानां हि देय- मेवं राजन्सर्वधर्मेषु दृष्टम् ॥
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ ।
एतच्छ्रुत्वा वामदेवस् वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥
एकं हि मे सायकं चित्ररूपं दुग्धं विषेणाहरसंगृहीतम् ।
येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः ॥
वामदेव उवाच ।
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र ।
एतं जहि त्वं मद्वचनात्प्रणुन्न- स्तूर्णं प्रियं सायकैर्घोररूपैः ॥
मार्कण्डेय उवाच ।
एवमुक्तो वामदेवेन राजन्न- न्तःपुरे राजपुत्रं जघान ।
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे ॥
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य ।
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥
वामदेव उवाच ।
यत्त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि ।
न त्वेतं त्वं शरवर्षं विमोक्तुं संधातुं वा शक्ष्यसे मानवेन्द्र ॥
राजोवाच ।
इक्ष्वाकवः पश्त मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥
वैमदेव उवाच ।
संस्पृश्यैनां महीषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् ।
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ॥
यथा युक्ता वामदेवाहमेनं दिनेदिने संदिशन्ती नृशंसम् ।
ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥
वामदेव उवाच ।
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते ।
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥
राजपुत्र्युवाच ।
वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्विषादद्य भर्ता ।
शिवेन जीवामि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥
मार्कण्डेय उवाच ।
श्रुत्वा वच स मुनी राजपुत्र्या- स्तथाऽस्त्विति प्राह कुरुप्रवीर ।
ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ संप्रणम्य ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

3-195-7 आश्वस्त इति छेदः ॥ 3-195-16 प्रयोजनं कर्तव्यम् ॥ 3-195-19 अतिमुक्तागारं वासन्तीगृहम् ॥ 3-195-28 प्रक्षीयते धनोद्रेको जनानामविजानताम् इति झ. पाठः । धनोद्रेकः श्रीतपसोरुत्कर्षः ॥ 3-195-29 प्तिजानीहि निश्चयं कुरु । प्राप्य प्रापय्य मृत्युम् । क्रोधं स्त्रीशोकजम् । अलं कृत्वा मा करु ॥ 3-195-35 ब्रह्मण्यं ब्राह्मणहितं तेन रहितानि अब्रह्मण्यानि ॥ 3-195-41 वाम्यौ वामदेवीयौ रथे युक्तौ अश्वौ अश्वतरौ ॥ 3-195-44 पत्रं वाहनम् ॥ 3-195-48 अन्तरे भेदे ॥ 3-195-51 वाहो वाहनम् ॥ 3-195-52 यदेतत् ब्राह्मणस्य स्वं आजीवमान उपजीवमानोसि एतदिह घोरमनिष्टपाकं व्रतं कर्म आहुरित्यन्वयः । वहंतु चतुर्दिक्षु प्रापयन्तु चतुर्धाकृत्वेति शेषः ॥ 3-195-53 त्वां मां हन्तुमुद्युक्तं ते मदीयास्त्वामेव पातयन्त्वित्यर्थः ॥ 3-195-55 असत्यं मिथ्यावादिनमपि त्वा त्वां नानुशास्मि न दण्डयामि । अद्यप्रभृति तवाज्ञामिति संबन्धः । तवापराधान् क्षमिष्ये आज्ञया च वर्तिष्ये इति वरद्वयं ज्ञेयम् ॥ 3-195-56 अनुयोगः शासनम् । अदण्ड्या ब्राह्मणा इत्यर्थः । ब्रह्म ब्राह्मणजातिम् । यो ब्राह्मणसेवी स जीवत्यन्यो नश्यतीत्यर्थः । वरद्वयमपि निरर्थकमिति भावः ॥ 3-195-58 ब्रह्मन्दलो वा विधेया मे यदि चेमे विशोपि इति झ. पाठः । दलः कनिष्ठो भ्राता । रविधेया आज्ञाकारिणः ॥ 3-195-59 निपातितं मृतम् ॥ 3-195-63 एतं जहि तव सायकस्त्वत्पुत्रमेव हिंसिष्यति नतु मामित्यर्थः ॥ 3-195-67 एवमुक्त्वा वामदेवेन स्तम्भितहस्तपादो राजोवाच इक्ष्वाकव इति ॥ 3-195-68 संस्पृश्य हत्वा । एनसो ब्रह्महत्याध्यवसायजात्पापात् ॥ 3-195-69 एनं नृशंसं भर्तारं दिनेदिने सूनृतानि कल्याणकराणि वाक्यानि संदिशन्तीति संबन्धः । ब्रह्मणेभ्यो मृगयती ब्राह्मणान् सेवितुमिच्छन्ती ॥