अध्यायः 199
मार्कण्डेयेन सेदुकवृषदर्भचरितकथनम् ॥ 1 ॥
3-199-3 उपांशु बहिरनुद्धाटितम् । कुप्यं स्वर्णरूप्यादन्यत् ॥ 3-199-8 कशेन पुंस्त्वमार्षम् ॥ 3-199-9 हिंसि हिनस्सि ताडयसि ॥ 3-199-10 शपन्तं शापं दित्सन्तम् । हे विप् यो न ददाति स्वीयं धनं तुभ्यं तस्मै वा एतत् शापदानं उचितम् । उताहोस्वित् एतद्ब्राह्मण्यं ब्राह्मणयोग्यं स्वोयमपि दित्सन्न शापयोग्यः नापि शानतिधर्मा ब्राह्मणः शापं दातुमर्हतीत्यर्थः ॥ 3-199-12 क्षेपणं दूरीकरणम् । अवश्यं स प्रसादनीय इत्यर्थः ॥ 3-199-13 दैवसिकां एकदिवसजातामुत्पततिं धनस्य । स्वनियमभङ्गाय प्रवृत्तं ब्राह्मणं दण्डयितुमपि प्रार्थितादधिकं दत्त्वा प्रसादयितुमपि समर्था राजान इति तात्पर्यम् ॥