अध्यायः 202
मार्कण्डेयेन पाण्डवान्प्रति कीर्त्यकीर्त्योः स्वर्गनरकनिवासहेतुताप्रतिपादकेन्द्रद्युम्नोपाख्यानकथनम् ॥ 1 ॥
वैशंपायन उवाच ।
मार्कण्डेयमृषिं पाण्डवाः पर्यपृच्छन्नस्ति कश्चिद्भवतश्चिरजाततर
इति ॥
स तानुवाचास्ति खलु राजर्षिरिन्द्रद्युम्नो नाम
क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिर्मे व्युच्छिन्नेति स
मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति ॥
तमहमब्रवं नाभिजानीमो भवन्तमिति रकार्यचेष्टाकुलत्वानन वयं
रासायनिका ग्रामैकरात्रवासिनो न
प्रत्यभिजानीमोऽप्यात्मनोऽर्थानामनुष्टानं न शरीरोपतापेनात्मनः
समारभामोऽर्थानामनुष्ठानम् ॥
`एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनर्मामब्रवीत् ॥ अथास्ति
कश्चित्त्वत्तश्चिरजाततर इति । तं पुनः प्रत्यब्रवम् ॥' अस्ति खलु
हिमवति प्रावारकर्णो नामोलूकः प्रतिवासति ॥ स मत्तश्चिरजातो भवन्तं
यदि जानीयाद्विप्रकृष्टे चाध्वनि हिमवांस्त त्रासौ प्रतिवसतीति ॥
तत स मामश्वो भूत्वा तत्रावहद्यत्र बभूवो लूकः ॥ अथैनं स
राजर्षिः पर्यपृच्छत्प्रतिजानाति मां भवानिति ॥
स मुहूर्तमिव ध्यात्वाऽब्रवीदेनं नाभिजानामि भवन्तमिति स एवमुक्त
इन्द्रद्युम्नः पुनस्तमुलङ मब्रवीद्राजर्षिः ॥
अथास्ति कश्चिद्भवतः सकाशाच्चिरजात इति स
एवमुक्तोऽब्रवीदस्तिखल्विन्द्रद्युम्नं नाम सरस्त स्मिन्नालिजङ्घो नाम
बकः प्तिवसति सोस्मत्तश्चिरजाततरस्तं पृच्छेति तत इन्द्रद्युम्नो मां
चोलूकमादाय तत्सरोऽगच्छद्यत्रासौ नालिजङ्घो नाम बको बभूव ॥
सोस्माभिः पृष्टो भवानिममिनद्रद्युम्नं राजानमभिजानातीति स एवं
मुहूर्तं ध्यात्वाऽब्रवीन्नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥
ततः सोस्माभिः पृष्टः कश्चिद्भवतोऽन्यश्चिरजाततरोस्तीति स
नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपारो नाम रकच्छपः प्रतिवसति ॥ स
मत्तश्चिरजाततरः स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं
पृच्छध्वमिति ॥
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास अस्माकमभिप्रेतं भवन्तं
कंचिदर्थमभिप्रष्टं साध्वागम्यतां तावदिति तच्छ्रुत्वा
कच्छपस्तस्मात्सरस उत्थायाभ्यागच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे
आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥
स मूहूर्तं ध्यात्वा बाष्पसंपूर्णनयन उद्विग्नहृदयो वेपमानो
विसंज्ञकल्पः प्राञ्जलिरब्रवीत् किमहमेनं न प्रत्यभिज्ञास्यामीह ह्यनेन
सहस्रकृत्वः पूर्वमग्निचितिषूपहिताः ॥
सरश्चेदमस्य दक्षिणोदकदत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् ॥
अत्रचाहं प्रतिवसामीति ॥
अथैतत्सकलं कच्छपेनोदाहृतं श्रुत्वा तदनन्तरं देवलोकाद्देवरथः
प्रादुरासीद्वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो
यथोचितं स्थानं प्रतिपद्यस्व कीर्तिमानस्यव्यग्रो याहीति ॥ 3-20213x
भवन्ति चात्र श्लोकाः ।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति
तावत्स्वर्गे महीयते ॥
अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित् । स
पतत्यधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥
तस्मात्कल्याणवृत्तः स्याद्दाता तावन्नरो भुवि । विहाय
वृत्तंपापिष्ठं धर्ममेव समाश्रयेत् ॥
इत्येतच्छ्रुत्वा स राजाऽब्रवीत्तिष्ठ तावद्यावदिमौ वृद्धौ
यथास्थानं प्रतिपादयामीति ॥
स मां प्रावारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेन
देवयानेन संसिद्धं यथोचितं स्थानं प्रतिपेदे तन्मयाऽनुभूतं
चिरजीविनेदृशमिति पाण्डवानुवाच मार्कण्डेयः ॥
तमृषिं पाण्डवाश्चोचुः साधु शोभनं भवता कृतंराजानमिन्द्रद्युम्नं
स्वर्गलोकाच्च्युतं स्वे स्थाने प्रतिपादयतेत्यथैतानब्रवीदसौ ननु
देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो
राजर्षिर्नृगस्तस्मात्कृच्छ्रात्पुनः समुद्धृत्यस्वर्गं प्रापित इति ॥
इति श्रीमनमहाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥
3-202-3 रसायनिकाः इति झ. पाठः ॥ 3-202-10 अग्निचितिषु अग्निचयनेषु कर्तव्येषु सत्मु ॥ 3-202-13 तावत्पुरुषउच्यते इति झ. पाठः । पुरुषः स्वर्गस्थ इति शेषः ॥ 3-202-18 असौ मार्कण्डेयः ॥