अध्यायः 203

मार्कण्डेयेन युधिष्ठिरंप्रति स्वार्गकारणीभूतसाधारणधर्मकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत्तदा ।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥
युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम् । कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने ।
इन्द्रलोकं त्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥
गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा ।
यथा फलं समश्नाति तथा त्वं कथयस्व मे ॥
मार्कण्डेय उवाच ।
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।
वृथा जन्म ह्यपुत्रस् ये च धर्मबहिष्कृताः ॥
परपाकं च येऽश्नन्ति आत्मार्थं च पचेत्तु यः ।
पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते ॥
आरूढपतिते दत्तमन्यायोपहृतं च यत् ।
व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा ॥
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके ।
वेदविक्रयिणे दत्तं तथा वृषलयाजके ॥
ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ ।
स्त्रीजितेषु च यद्दत्तं व्यालग्राहे तथैव च ॥
परिचारकेषु यद्दत्तं वृथा दानानि षोडश ।
तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥
भुङ्क्ते च दानं तत्सर्वं गर्भस्थस्तु नरः सदा ।
ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः ॥
तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव ।
दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया ॥
युधिष्ठिर उवाच ।
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे ।
केन विप्रा विशेषेण तारयन्ति तरन्ति च ॥
मार्कण्डेय उवाच ।
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च ।
नावं वेदमयीं कृत्वातारयन्ति तरन्ति च ॥
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः ।
वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात् ॥
अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः ।
श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः ॥
ब्राह्णा एव संपूज्याः पुण्यं स्वर्गमभीप्सता ।
श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः ॥
दुर्बलः कुनस्वी कुष्ठी मायावी कुण्डगोलकौ ।
वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः ॥
जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम् ॥
ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः ।
तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः ॥
प्रतिग्रहश्च वै देयः शृणु यस् युधिष्ठिर ।
प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान् ॥
तस्मिन्देयं द्विजे दानं सर्वागमविजानता ।
प्रदातारं तथाऽऽत्मानं तारयेद्यः स शक्तिमान् ॥
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने ॥
तस्मात्त्वंसर्वयत्नेन यतस्वातिथिभोजने ॥
पादोदकंपादघृतंदीपमन्नं प्रतिश्रयम् ।
प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम् ॥
देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम् । आकल्पपरिचर्या च गात्रसंवाहनानि च ।
अत्रैकैकं नृपश्रेष्ठ गोदानाद्व्यतिरिच्यते ॥
कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः ।
तस्मादलंकृतां दद्यात्कपिलां तु द्विजातये ॥
श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे ।
पुत्रदाराभिभूताय तथा ह्यनुपकारिणे ॥
एवंविधेषु दातव्या न समृद्धेषु भारत ।
को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम् ॥
एकस्यैका प्रदातव्या न बहूनां कदाचन । सा गौर्विक्रयमापन्ना हन्यात्रिपुरुषं कुलम् ।
न तारयति दातारं ब्राह्मणं नैव नैव तु ॥
ब्राह्मणस्य विशुद्धस्य सुवर्णं यः प्रयच्छति ।
सुवर्णानां शतं तेन दत्तं भवति शाश्वतम् ॥
अनड्वाहं तु यो दद्याद्बलवन्तं धुरंधरम् ।
स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति ॥
वसुंधरां तु यो दद्याद्द्विजाय विदुषात्मने ।
दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः ॥
पृच्छन्ति चान्नदातारं वदन्ति पुरुषा भुवि ।
अध्वनि क्षीणगात्राश्च पांसुना चावकुण्ठिताः ॥
तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः ।
अन्नदातृसमः सोपि कीर्त्यते नात्र संशयः ॥
तस्मात्त्वं सर्वदानानि हित्वाऽन्नं संप्रयच्छ ह ।
न हीदृशं पुण्यफलं विचित्रामिह विद्यते ॥
यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम् ।
स तेन कर्मणाऽऽप्नोति प्रजापतिसलोकताम् ॥
अन्नमेव विशिष्टं हि तस्मात्परतरं न च ।
अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः ॥
संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम् ।
तस्मात्सर्वाणि भूतानि स्थावराणि चराणि च ॥
तस्मादन्नं विशिष्टं हि सर्वेभ्यइति विश्रुतम् ॥
येषां तटाकानि महोदकानि वाप्यश्चकूपाश्चप्रतिश्रयाश्च ।
अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥
धान्यं श्रमेणार्जितवित्तसंचितं विप्रे सुशीले प्रतियच्छते यः ।
वसुंधरा तस्य भवेत्सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव ॥
अन्नदाः प्रथमं यान्ति सत्यवाक्यदनन्तरम् ।
अयाचितप्रदाता च समं यान्ति त्रयो जनाः ॥
वैशंपायन उवाच ।
कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः ।
मार्कण्डेयं महात्मानं पुनरेव सहानुजः ॥
यमलोकस्य चाध्वानमन्तरं मानुषस्य च । कीदृशं किंप्रमाणं वा कथं वा तन्महामुने ।
तरन्ति पुरुषाश्चैव केनोपायेन शंस मे ॥
मार्कण्डेय उवाच ।
सर्वगुह्यतनं प्रश्नं पवित्रमृषिसंस्तुतम् ।
कथयिष्यामि ते राजन्धर्मं धर्मभृतांवर ॥
षडशीतिसहस्राणि योजनानां नराधिप ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥
आकाशं तदपानीयं घोरं कान्तारदर्शनम् ।
न तत्र वृक्षच्छाया वा पानीनं केतनानि च ॥
विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः ।
नीयते यमदूतैस्तु यमस्वाज्ञाकरैर्बलात् ॥
नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसंज्ञिताः ।
ब्रह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ॥
हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः ।
सन्निवार्यातपं यानति च्छत्रेणैव हि च्छत्रदाः ॥
तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः ।
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः ॥
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलंकृताः ।
भूमिदास्तुसुखं यान्ति सर्वैः कामैः सुतर्पिताः ॥
यान्ति चैवापरिक्लिष्टा नरा सस्यप्रदावकाः ।
नराः सुखतरं यान्ति विमानेषु गृहप्रदाः ॥
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः ।
पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम् ॥
गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः ।
विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः ॥
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः ।
त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव ॥
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः ।
पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः ॥
तत्र पुष्पोदका नाम नदी तेषां विधीयते ।
शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम् ॥
ये चदृष्कृतकर्माणः पूयं तेषां विधीयते ।
एवं नदी महाराज सर्वकामप्रदा हि सा ॥
तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि ।
अध्वनिं क्षीणगात्रश्च पथि पांशुसमन्वितः ॥
पृच्छते ह्यन्नदातारं गृहमायाति चाशया ।
तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः ॥
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः ।
तस्मिन्संपूजिते प्रीता निराशा यान्त्यपूजिते ॥
तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि ।
एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥
युधिष्ठिर उवाच ।
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम् ।
पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो ॥
मार्कण्डेय उवाच ।
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप ।
सर्वपापहरां नित्यं शृणुष्वावहितो मम ॥
कपिलायां तु दत्तायां यत्फलंज्येष्ठपुष्करे ।
तत्फलंभरतश्रेष्ठ विप्राणां पादधावने ॥
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ॥
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥
यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते ।
तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना ॥
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥
यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर ।
तावद्युगसहस्राणि स्वर्लोके महीयते ॥
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम् ।
तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलंकृताम् ॥
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे ।
फलानां फलमश्नाति तदा दत्त्वा च भारत ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः ।
यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै ॥
ये पानीयानि ददति तथाऽन्ये ये द्विजातयः ।
जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः ॥
हव्यंकव्यं च यत्किंचित्सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौज्यलितेऽग्नौ यथा हुतम् ॥
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः ।
निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान् ॥
धर्माश्रितेयं तु कथा कथिता हि तवानघ ।
यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः ॥
वीतशोकभयक्रोधा विपाप्मानस्तथैव च ।
श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः ॥
युधिष्ठिर उवाच ।
किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत् ।
तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतांवर ॥
मार्कण्डेय उवाच ।
वाक्शौचं क्रमशौचं च यच्च शौचं जलात्मकम् ।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥
सायं प्रातश्च संध्यां यो ब्राह्मणोऽभ्युपसेवते ।
प्रजपन्पावनीं देवीं गायत्रीं वेदमातरम् ॥
स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः ।
न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥
ये चास् दारुणा केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा ॥
सर्वेनानुगतं चैनं दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम् ॥
नाध्यापनाद्याजनाद्वा अन्यायाद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलिताग्निससा द्विजाः ॥
दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा ।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥
यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति ।
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥
प्राकरैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः ।
नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः ॥
वेदाढ्ञा वृत्संपन्ना ज्ञानवन्तस्तपस्विनः ।
यत्रतिष्न्ति वै विप्रास्तन्नाम नगरं नृप ॥
व्रजे वाऽप्यथवाऽरण्ये यत्रसन्ति बहुश्रुताः ।
तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत् ॥
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम् ।
अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते ॥
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम् ।
सद्भिः संभाषणं चैव प्रशस्तं कीर्त्यते बुधैः ॥
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा ।
पवित्रीकृतमात्मानं सन्तो मन्न्ति नित्यशः ॥
त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम् ।
वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम् ॥
अग्निहोत्रं वने वासः शरीरपरिशोषणम् ।
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः ॥
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम् ।
विकारि तेषां राजेन्द्र सुदुष्करतरं मनः ॥
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः ।
ते तपन्ति महात्मानो न शरीरस्य शोषणम् ॥
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः ।
हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम् ॥
तिष्ठन्गृहे चैव मुनिर्नित्यं शुचिरलंकृतः ।
यावज्जीवं दयावांश् सर्वपापैः प्रमुच्यते ॥
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः ।
सीदत्यनशनादेव मांसशोणितलेपनः ॥
अज्ञातं कर्म कृत्वा च क्लेशो नान्यत्प्रहीयते ।
नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः ॥
पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च ।
न मूलफलभक्षित्वान्न मौनान्नानिलाशनात् ॥
शिरसो मुण्डनाद्वाऽपि न स्थानकुटिकासनात् । न जटाधारणाद्वाऽपिन तु स्थानकुटिकासनात् ।
नित्यं ह्यनशनाद्वाऽपि नाग्निशुश्रूषणादपि ।
न चोदकप्रवेशेन न च क्ष्माशयनादपि ॥
ज्ञानेन कर्मणा वापि जरामरणमेव च ।
व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम् ॥
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा ।
ज्ञानदग्धैस्तधा क्लेशैर्नात्मा संडुज्यते पुनः ॥
आत्मना विप्रहीणानि काष्ठकुण्ठोपमानि च ।
विनश्यन्ति न संदेहः फेनानीव महार्णवे ॥
आत्मानं विन्दते येन सर्वभूतगुहाशयम् ।
श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम् ॥
द्व्यक्षरादभिसंधाय केचिच्छ््लोकपदाङ्कितैः ।
शतैरन्यैः सहस्रैश्च प्रत्ययो मोक्षलक्षणम् ॥
नायं लोकोस्ति न परो न सुखं संशयात्मनः ।
ऊटुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम् ॥
विदितार्थस्तु वेदानां परिवेद प्रयोजनम् ।
उद्विजेत्स तु देवेभ्यो दावाग्नेरिव मानवः ॥
शुष्कं तर्कं परित्यज्यआश्रयस्व श्रुतिं स्मृतिम् । एकाराभिसंबद्धं तत्त्वं हेतुभिरिच्छसि ।
बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात् ॥
वेद्यं पूर्वं वेदितव्यं प्रयत्ना- त्तद्धीर्वेदस्तस्य वेदः शरीरम् ।
वेदस्तत्त्वं तत्समासोपलब्धिः क्लीबस्त्वात्मा न स वेद्यं न वेदः ॥
वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम् ।
फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥
इन्द्रियाणां प्रसादेन तदेतत्परिवर्जयेत् ।
तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम् ॥
तपसा स्वर्गगमनं भोगो दानेन जायते ।
ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः ॥
वैशंपायन उवाच ।
एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः ।
भगवञ्श्रोतुमिच्छामि प्रदानविधिमुत्तमम् ॥
मार्कण्डेय उवाच ।
यत्तत्पृच्छसि राजेन्द्रदानधर्मं युधिष्ठिर ।
इष्टं चेदं सदा मह्यं राजन्गौरवतस्तथा ॥
शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च । छायायां करिणः श्राद्धं तत्कर्म परिवीजितम् ।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर ॥
जीवनाय समाक्लिन्नं वसु दत्त्वा महीपते ।
विप्रं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान् ॥
प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसंचरन् । महाधुरि यथा नावा महापापैः प्रमुच्यते ।
विषुवे विप्रदत्तानि दधिमध्वक्षयाणि च ॥
पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत् । 3-203-b124 `अब्दे दशगुणं प्रोक्तमनन्तं विषुवे भवेत्' ॥
अयने विषुवे चैवषडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते ॥
ऋतुषु दशगुणं वदन्ति दत्तं शतगुणमृत्वयनादिषु ध्रुवम् ।
भवति सहस्रगुणं दिनस्य राहो- र्विषुवति चाक्षयमश्नुते फलम् ॥
नाभूमिदो भूमिमश्नाति राज- न्नायानदो यानमारुह्य याति ।
यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामाञ्जायमानः स भुङ्क्ते ॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकाश्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात् ॥
परंहि दानान्न बभूव शाश्वतं भव्यं त्रिलोके भवते कुतः पुनः ।
तस्मात्प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

3-203-5 यत्र जन्मनि असत्यं वृथा गोब्राह्मणादित्राणं विना कीर्त्यते तदपि वृथेत्यर्थः ॥ 3-203-6 आरूढश्चासौ पतितः ॥ 3-203-7 गुरावप्यानृतिकेऽनृतप्रिये । वृषलः शूद्रः ॥ 3-203-8 ब्राह्मबन्धवो जातिमात्रब्राह्मणआ वृत्ताध्ययनशून्याः ॥ 3-203-10 दानं दानफलं अन्यत्तु दानं वृद्धभावेन जरया भुङ्क्ते ॥ 3-203-17 काण्डपृष्ठाः बाणनिषङ्गधराः क्षात्रवृत्तय इत्यर्थः । दुर्वर्णः कुनखीति झ. पाः ॥ 3-203-25 माल्यं निर्माल्यम् । आकल्पः गन्धादिनालंकरणम् । अरोगिप्रतिचर्याचेति नृपश्रेष्ठगोशतादिति च ध. पाठः ॥ 3-203-27 अभिभूताय दारिद्र्यादेव ॥ 3-203-28 अभिवर्जितं दत्तम् ॥ 3-203-29 सा बहुभ्यो दत्ता ॥ 3-203-40 प्रतिश्रया गृहाः येषां यैः उत्सृष्टा इति शेषः । निर्वचनाः यमवार्तामपि न शृण्वन्तीत्य्रतः ॥ 3-203-41 वसूनां धनानाम् ॥ 3-203-42 सत्योक्तास्तदनन्तरमिति ध. पाठः ॥ 3-203-45 सर्वं पूज्यतमं प्रश्नमिति ध. पाठः ॥ 3-203-51 प्रावृता वस्त्रदातार इति ध. पाठः ॥ 3-203-76 अपानपा नगदितास्तथा इति झ. पाठः । अपानपा अमद्यपाः नगदिताः न केनचिद्दोषवत्तया कीर्तिताः ॥ 3-203-80 राजन्न भवन्तीह इति झ. पाठः । न भवन्तीह मानवाः स्वर्गं प्राप्योपर्युपरि गच्छन्तो मुक्तिमेव प्राप्नुवन्तीत्यर्थः ॥ 3-203-87 अन्यस्माद्वा इति झ. पाठः ॥ 3-203-94 पवित्राणां त्रिसुपर्णादिमन्त्राणाम् ॥ 3-203-96 अभिषेचनं तीर्थेषु ॥ 3-203-97 भावश्चित्तम् ॥ 3-203-98 न दुष्करमिति इन्द्रियगामिनां विषयाणां विशुद्धिं विना अशनं भोगः सुकरम् । भोगो विषयशुद्धिं नापेक्षते । पण्याङ्गनासङ्गादिनापि तत्सिद्धेः । किंतु अनाशित्वं अमृतत्वं भोगवर्जनं वा तां विना न सुकरम् । यतो दुष्करं खभावतो दुःसंपादमिति योजना । दुष्करत्वे हेतुमाहार्धेन विकारीति । सुदुष्करतरं दुर्जयम् ॥ 3-203-100 ज्ञातिभ्यः पुत्राद्यर्थे । शुक्लदेहः शुक्लवत्त्युपजीवी । अविकल्मषः शुक्लवृत्त्या यः कुटुम्बं पीडयति स निष्कल्मषो न भवतीत्यर्थः । तस्योपपादनमुत्तरार्धेन हिंसेति । अनाशित्वं अशनत्यागः ॥ 3-203-101 मांसशोणितलेपनः देहः ॥ 3-203-103 अज्ञातं शास्त्रत्किंतु स्वयमेव कल्पितं तप्तशिलारेहणादि । तेन क्लेश एव नतु अन्यत्पापं प्रहीयते ॥ 3-203-105 स्थानकुटिकासनात्स्थावरगृहत्यागात् ॥ 3-203-109 आत्मनेति शरीराणीति शेषः ॥ 3-203-113 स तु वेदेभ्यः इति झ. पाठः ॥ 3-203-115 वेदपूर्वं वेदितव्यं प्रयत्नात्तद्वै वेदस्तस्य वेदः शरीरम् । वेदस्तत्वं तत्समासोपलब्धौ क्लीवस्त्वात्मा तत्सवेद्यस्य वेद्यम् । इति झ.पाठः ॥ 3-203-117 प्रसादेन नैर्मल्येन । अनशनं नाम चित्तेन्द्रियनिरोधो नत्वाहारत्याग इत्याह तस्मादिति ॥ 3-203-121 छायायां करिणः । गुर्वमायोगेऽश्वत्थच्छाया गजच्छायाख्यं पर्व देशकालयोगजम् । तत्कर्णपरिवीजिते इति झ. पाठः । कर्णाइव कर्णा अश्वत्थपल्लवास्तैर्वीजिते देशे जलोपान्ते ॥ 3-203-122 समाक्लिन्नं आर्द्रं वसु अन्नादिद्रव्यं दत्त्वा महीयते । वैश्यं तु इति झ. पाठः ॥ 3-203-123 प्रति प्रतीपं पूर्ववाहिन्याः नद्याः पश्चिमाभिमुखं स्नोतः प्रवाहो यत्रतत् तीर्थं प्रतिस्नोतः । तत्र पात्रेऽर्पिताश्चित्रबाहा उत्तमाश्वाः । विपरिणम्य अक्षया इत्यपकृष्यते । अक्षयफला इत्यर्थः । पर्जन्योऽन्नानुसंचरन् अन्नार्थं अनुसंचरन्पर्जन्य इन्द्रोऽप्यक्षयः । अतिथिरूपेण तृप्त इन्द्रोप्यक्षयस्वर्गप्रद इत्यर्थः । महाधुरि महति धूसदृशे प्रवाहे ना पुरुषोवा यथा महाधुरि योगभारे । यथा सर्वपापैः प्रमुच्यते तथैव गजच्छायाश्राद्धदिकर्तारोपि मुच्यन्त इत्यर्तः ॥ 3-203-124 विप्लवे विप्रदत्तानि दधिमस्त्वक्षयाणि च इति झ. पाठः ॥ 3-203-125 विषुवे तुलामेषसंक्रान्त्योः । षडशीतिमुखे मिथुनकनयामीनसंक्रान्तिषु ॥ 3-203-127 कामान् काम्यमानान्विषयान् ॥