अध्यायः 204

मार्कण्डेयेन युधिष्ठिरंप्रति धुन्धुमारोपाख्यानकथनारम्भः ॥ 1 ॥ उदङ्कनामकमुनेस्तपसा तुष्टेन विष्णुना तस्मै वरदानम् ॥ 2 ॥ तथा विष्णुना उदङ्कंप्रति कुवलाश्वेन धुन्धुनामकासुरघातनविधानपूर्वकमन्तर्धानम् ॥ 3 ॥

वैशंपायन उवाच ।
[श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत्तथा । मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥]
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ ।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥
विदितास्तव धर्मज्ञ देवदानवरक्षसाम् ।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ।
अथ वेत्सि मुने वंशान्मनुष्योरगरक्षसाम् ॥
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा ।
इदमिच्छाम्यहं श्रोतुं तत्त्वे द्विजसत्तम ॥
कुवलाश्व इति ख्यात इक्ष्वाकुकुलसंभवः ।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम ।
विपर्यस्तं यथा नाम कुवलाश्वस् धीमतः ॥
[वैशंपायन उवाच ।
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः । धौन्धुमारमुपाख्यानं कथयामास भारत ॥]
मार्कण्डेय उवाच ।
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर ।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः ।
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥
महर्षिर्विश्रुतस्तात उदङ्क इति भारत ।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥
उदङ्कस्तु महाराज तपोतप्यत्सुदुश्चरम् ।
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः ॥
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् ।
दृष्ट्वा महर्षिस्तद्ब्रह्म तुष्टाव विविधैः स्तवैः ॥
उदङ्क उवाच ।
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ।
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ॥
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥
ऊरू ते पर्वता देव स्वं नाभिर्मधुसूदन ।
पादौ ते पृथिवी चैव रोमाण्योषधयस्तथा ॥
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर ।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम् ।
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥
देवानां मानुषाणां च सर्वभूतसुखावहः ।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः ॥
असुराणां समृद्धानां विनाशश्च त्वया कृतः ।
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ॥
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते । त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः ।
आराधयित्वा त्वां देवाः सुखमेधन्ति नित्यशः ॥
एवं स्तुतो हृषीकेश उदङ्केन महात्मना ।
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥
उदङ्क उवाच ।
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् ।
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥
विष्णुरुवाच ।
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम ।
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥
एवं स च्छन्द्यमानस्तु वरेण हरिणा तदा ।
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण । धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर ॥
भगवानुवाच ।
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ॥
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः ।
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥
[राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः] बृहदश्व इति ख्यातो भविष्यति महीपतिः ॥
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रतः । स योगबलामास्थाय मामकं पार्तिवोत्तमः ।
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥

3-204-3 देवदानवराक्षसा इति ध. पाठः ॥