अध्यायः 016

कृष्णेन युधिष्ठिरंप्रति साल्वयादवयुद्धवर्णनम् ॥ 1 ॥

वासुदेव उवाच ।
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा ।
प्रभूतनरनागेन बलेनोपविवेश ह ॥
समे निविष्टां सा सेना प्रभूतसलिलाशये ।
चतुरङ्गबलोपेता साल्वराजाभिपालिता ॥
वर्जयित्वा श्मशानानि देवतायतनानि च ।
वल्मीकांश्चैव चैत्यांश्च संनिविष्टमभूद्बलम् ॥
अनीकानां विभागेन पन्थानः सुकृतास्तथा ।
प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप ॥
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।
रथनागाश्वकलिलं पदातिजनसंकुलम् ॥
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम् ।
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् ॥
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।
अभिसारयामास तदा वेगैन पतगेन्द्रवत् ॥
तदापतन्तं संदृश्य बलं साल्वपतेस्तदा ।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥
असहन्तोऽभियानं तत्साल्वराजस्य कौरव ।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च रमहारथः ॥
ते रथैर्दंशिताः सर्वेविचित्राभरणध्वजाः ।
संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः ॥
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे ।
यीधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम् ॥
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।
मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक् ॥
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।
क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः ॥
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम् ।
मुमोच मायाविहितं शरजालं महत्तरम् ॥
ततो मायामयं जालं माययैव विदार्यसः ।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः ।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।
चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः ॥
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि ।
वातरुग्णं इव क्षुण्णो जीर्णमूलोवनस्पतिः ॥
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे ।
प्रविश्य महतीं सेनां योधयामास मे सुतः ॥
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।
महारथः समाज्ञातो महाराज महाधनुः ॥
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।
वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत् ॥
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः ।
विनदन्तौ महाराज सिंहाविव महाबलौ ॥
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥
स विविन्ध्याय सक्रोधः समाहूय महारथः ।
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥
विविन्ध्यं निहृतं दृष्ट्वा तां च विक्षोभितां चमूम् ।
कामगेन स सौभेन साल्वः पुनरुपागमत् ॥
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।
दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम् ।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।
निवारयन्तं संग्रामे बलात्सौभं सराजकम् ॥
अयं सौभपतेः सेनामायसैर्भुजगैरिव ।
धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः ॥
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।
मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन । धिष्टितं तद्बलं द्वारि युयुधे च यथासुखम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षोडशोऽध्यायः ॥ 16 ॥

3-16-2 समे देशे ॥ 3-16-4 प्रवणाय च नैवासन्निति झ. पाठः ॥ 3-16-5 कलिलं संकटम् । पदातिध्वजसंकुलमिति झ. पाठः ॥ 3-16-7 अभिसारयामास नगरसमीपं गमयामास । सैन्यं पतगेन्द्रवत्सौभं चोपरितः अभिसारयामास ॥ 3-16-8 आपतन्समापतत् ॥ 3-16-16 क्षेमधूर्तिः स्मयन्निवेति क. ट. पाठः । अपायात्पलायितः ॥ 3-16-18 अभिपन्नः आभिमुख्येनासादितः ॥ 3-16-19 व्याविध्य सत्यविक्रमः इति झ. पाठः । तत्र व्याविध्य भ्रामयित्वेत्यर्थः ॥ 3-16-20 रुग्णः क्षुण्णश्च गजादिपदाघातैः ॥ 3-16-27 सौभेन खेचरेण पुरेण ॥ 3-16-29 निर्याय निर्गत्य । अवस्थाप्य आश्वास्य । आनर्तानां द्वारकावासिनाम् ॥ 3-16-31 धनुर्भुजविनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तैः. भुज कौटिल्ये तुदादिः ॥ 3-16-33 धिष्ठितं अधिष्ठितम् ॥