अध्यायः 206

बृहदश्वेनोदङ्कंप्रति स्वपुत्रेण कुवलाश्वेन धुन्धुवधस्य भावित्वकथनपूर्वकं वनंप्रति गमनम् ॥ 1 ॥ धुन्धूत्पत्तिं पृष्टेन मार्कण्डेयेन युधिष्ठिरंप्रति तदुपोद्धाततया मधुकैटभवृत्तान्तकथनम् ॥ 2 ॥

मार्कण्डेय उवाच ।
स एवमुक्तो राजर्षिरुदङ्केनापराजितः ।
उदङ्कं कौरवश्रेष्ठ कृताञ्जलिथाब्रवीत् ॥
न हि मे गमनं ब्रह्मन्मोघमेतद्भविष्यति ।
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि ।
प्रियं च ते सर्वमेतत्करिष्यति न संशयः ॥
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः । `हनिष्यति महाबाहुस्तं वै धुन्धुं महाऽसुरम्' ।
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोस्मि सांप्रतम् ॥
तथाऽस्त्विति च तेनोक्तो मुनिनाऽमिततेजसा । स तमादिश्य तनयमुदङ्काय महात्मने ।
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥
युधिष्ठिर उवाच ।
क एष भगवन्दैत्यो महावीर्यस्तपोधन ।
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥
एवं महाबलो दैत्यो न श्रुतो मे तपोधन ।
`यस्य निश्वासवातेन कम्पते भूः सपर्वता' ॥
एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ।
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥
मार्कण्डेय उवाच ।
शृणु राजननिदं सर्वं यथावृत्तं नराधिप ।
कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम् ॥
एकार्णवे निरालोके नष्टे स्थावरजङ्गमे ।
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥
प्रभवं लोककर्तारं विष्णुं शाश्वतमव्ययम् । यमाहुर्मुनयः सिद्धाः सर्वलोकमहेश्वरम् ।
`चतुर्भुजमुदाराङ्गं दृष्टवानस्मि भारत' ॥
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव हि ।
नागस् भोगे महति शेपस्यामिततेजसः ॥
लोककर्ता महाभाग भगवानच्युतो हरिः ।
नागभगेन महता परिरभ्य महीमिमाम् ॥
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् ।
नाभ्या विनिःसृतं दिव्यं तत्रोत्पन्नः पितामहः ॥
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्यसमप्रभः ।
चतुर्वेदश्चतुर्मूर्तिश्चतुर्वर्गश्चतुर्मुखः ॥
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ।
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तमौ ॥
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ।
शयानं शयने दिव्ये नागभोगे महाद्युतिम् ॥
बहुयोजनविस्तीर्णे बहुयोजनमायते ।
किरीटकौस्तुभधरं पीतकौशेयवाससम् ॥
दीप्यमानं श्रिया राजंस्तेजसा वपुपा तथा ।
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥
विस्मय सुमहानासीन्मधुकैटभयोस्तदा ॥
दृष्ट्वा पितामहं चापि पद्मे पद्मनिभेक्षणम् ।
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् ॥
वित्रास्यमानो बहुधा ब्रह्मा ताभ्यां महायशाः ।
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥
अथापश्त गोविन्दो दानवौ वीर्यवत्तरौ ॥
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ।
ददामि वां वरं श्रेष्ठं रप्रीतिर्हि मम जायते ॥
तौ प्रहस्य हृषीकेशं महादर्पौ महाबलौ ।
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम ।
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥
भगवानुवाच ।
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम ।
युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् ॥
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ ।
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥
मधुकैटभावूचतुः ।
अनृतंनोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा ।
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥
बले रूपे च शौर्ये च शमे न च समोस्ति नौ ।
धर्मे तपसि दाने च शीलसत्वदमेषु च ॥
उपप्लवो महानस्मानुपावर्तत केशव ।
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥
आवामिच्छावहे देव कृतमेकं त्वया विभो ।
आनावृतेऽवकाशे त्वं जह्यावां सुरसत्तम ॥
पुत्रत्वमधिगच्छाव तव चापि सुलोचन ।
वर एष वृतोदेव तद्विद्धि सुरसत्तम ॥
अनृतं मा भवेद्देव यद्धि नौ संश्रुतं तदा ॥
भगवानुवाच ।
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति ॥
सविचिन्त्याथ गोविन्दो नापश्यद्यदनावृतम् ।
अवकाशंपृथिव्यां वा दिवि वा मधुसूदनः ॥
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा । मधुकैटभयो राजञ्शिरसी मधुसूदनः ।
चक्रेण शितधारेण न्यकृन्तत महायशाः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

3-206-9 न तेऽभिगमनं इति झ. पाठः ॥