अध्यायः 207
मधुकैटभपुत्रेण धुन्धुना
तपस्तोषिताद्विरिञ्चादवध्यत्वादिवरग्रहणेन देवानां पीडनम् ॥ 1 ॥ उदङ्कचोदितेन
कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण दहनम् ॥ 2 ॥ तदा देवादिभिः
कुवलाश्वस्य धुन्धुमार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानंप्रति
गमनम् ॥ 3 ॥ मार्कण्डेयेन युधिष्ठिरंप्रति तत्पुत्राणां नामकथनपूर्वकं
धुन्धुमारोपाख्यानस्तवनम् ॥ 4 ॥
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः ।
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥
अतिष्ठदेकपादेन कृशो धमनिसंततः ।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥
एवं भवतु गच्छेति तमुवाच पितामहः ।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥
सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः ।
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥
सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥
समुद्रवालुकापूर्णे उज्जानक इति स्मृते ।
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ।
बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा ।
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥
शेते लोकविनाशाय तपोबलमुपाश्रितः ।
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥
एतस्मिन्नेव काले तु राजा सबलवाहनः ।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।
उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः ।
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ।
`प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः' ॥
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर ।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥
कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः ।
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा ।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥
अर्णवं स्वानयामास कुवलाश्वो महीपतिः ।
`हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः' ॥
कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे ।
सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥
आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत् ।
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम् ।
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥
प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः ।
सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ॥
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ।
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम ।
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ।
आससाद महातेजाः कुवलाश्वो महीपतिः ॥
तस्य वारिमहाराज सुस्राव बहु देहतः ।
तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥
योगी योगेन सृष्टं स समयित्वा च वारिणा ।
ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम् ।
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः ।
धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥
प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा ।
परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा ।
अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः ।
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ।
धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥
संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम् ।
देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन् ।
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ।
[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥
एवंसं निहतस्तेन कुवलाश्वेन सत्तम ।
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः ।
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥
आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु ।
न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि गार्कण्डेयसमास्यापर्वणि
सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥
3-207-30 वृष्टिं सगमयित्वाविचारिणा इति क. थ. पाठः । वह्निं च
शमयामास वारिणा इति झ. पाठः ॥