अध्यायः 211

कौशिकंप्रति धर्मव्याधेन शिष्टलक्षणादिकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत ।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥
`पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा' । एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर ।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ॥
व्याध उवाच ।
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।
धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम् ।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥
ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाता च पीड्यते ॥
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः ।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥
कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥
क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ॥
अहिंसा सत्यवचनं सर्वभूतहितं परम् । अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ॥
यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते ।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥
आरम्भो न्याययुक्तो यः स हि धऱ्म इति स्मृतः ।
अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम् ॥
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥
तेषामहीनसत्वानां दुष्कराचारकर्मणाम् ।
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥
तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।
श्रुतवृत्तोपसंपन्नास्ते सन्तः स्वर्गगामिनः ॥
वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः ।
शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम् ॥
धारणं चापि वेदानां तीर्थानामवगाहनम् ।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥
सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा ।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥
शुभानामशुभानां च कर्मणां सबलाश्रयम् ।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः । सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे ।
दातारः संविभक्तारो दीनानुग्रहकारिणः ॥
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥
दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम् ।
पीडया च कलत्रस्य भृत्यानां च समाहिताः ॥
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः । लोकयात्रां च पशय्न्तो धर्ममात्महितानि च ।
एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥
अहिंसा सत्यवचनमानृशंस्यवथार्जवम् ।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन् ।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ॥
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ।
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ॥
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ।
कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम् ॥
शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः ।
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ॥
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः ।
अतिषुण्यानि दानानि तानि द्विजवरोत्तम ॥
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् । शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥

3-211-6 वृत्तं वृतं स्वेच्छोपात्तमिति यावत् ॥ 3-211-7 अतोऽन्यथा गुरुशुश्रूषणाद्यभावे ॥ 3-211-8 उपनिषद्रहस्यम् ॥ 3-211-9 अनुयाता अनुगन्ता ॥ 3-211-10 श्रुतिश्च त्यागाश्च ते द्वे परं अयनं स्थानं येषां ते श्रुतित्यागपरायणाः ॥ 3-211-14 शिष्टाचारवति शुक्लपोपमे योगधर्मः रागइव साधुर्भवेत् । शुक्लेव वेति इवार्थे ॥ 3-211-17 अनात्मवान् अजितचित्तः ॥ 3-211-19 अहंकारो दर्पः मत्सरः परदोषासहिष्णुत्वं तद्विर्जिताः । शिष्टं गुरुशास्त्रोक्तं आचरन्तः शिष्टाचाराः ॥ 3-211-20 त्रैविद्यवृद्धाः तिस्रो विद्या ऋग्यजुःसामात्मिका यत्रस त्रिविद्यो यज्ञस्तत्र साधवस्त्रैविद्या याज्ञिकाः । वृत्तं शीलं तद्वन्तः । मनस्विन जितचित्ताः ॥ 3-211-21 दुष्कराचारकर्मणां अन्यैर्दुष्करः आचारः शीलं कर्म यज्ञादि येषां तेषाम् । घोरत्वं हिंसादिदोषवत्त्वम् ॥ 3-211-22 पुराणमनादिम् । शाश्वतं अनवच्छिन्नम् । ध्रुवं नित्यम् । अत्याज्यमित्यर्थः ॥ 3-211-24 वेदोक्तोऽग्निहोत्रादिः । धर्मशास्त्रोक्तः अष्टकाश्राद्धादिः । शिष्ठाचीर्णः होलकादिः । शिष्टनां तुष्टिरिति शेषः ॥ 3-211-28 न्यायो युक्तिः । गुणाः शमादयस्तदुपेताः । संविभक्तारः कुटुम्बेषु ॥ 3-211-29 श्रुतधनाः विद्याधनाः ॥ 3-211-35 करुणाः करुणावन्तश्च ते वेदनशीलाश्च । मत्वर्थीयोऽच् ॥ 3-211-39 अतिपुण्यानि पापानि इति झ. पाठः ॥