अध्यायः 212
कौशिकंप्रतिधर्मव्याधेन सर्वैहिंसाया दुस्त्यजत्वोपपादनपूर्वकं
सर्ववर्णानां स्वस्वधर्मानुहानस्य श्रेयःसाधात्वादिकथनम् ॥ 1 ॥
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम् ।
पुरा कृतस् पापस्य कर्मदोषो भवत्ययम् ॥
दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ।
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥
येषां हतानां मांसानि विक्रीणीमो वयं द्विज ।
तेषामपि भवेद्धर्म उपयोगेन भक्षणात् ।
देवतातिथिभृत्यानां पितृणां चापि पूजनात् ॥
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः ।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः ।
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज ।
[द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा ।]
अहन्यहनि पच्येते द्वे सहस्रे गवां तथा ॥
स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ।
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः ।
अग्नयो मांसकामाश्चइत्यपि श्रूयते श्रुतिः ॥
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ।
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥
यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा ।
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ॥
अत्रापि विधिरुक्तश् मुनिभिर्मांसभक्षणे ॥
देवतानां पितृणां च शुङ्क्ते दत्त्वाऽपियः सदा ।
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात् ॥
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते ।
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज ।
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥
स्वधर्म इतिकृत्वा तु न त्यजामि द्विजोत्तम ।
पुरा कृतमिति ज्ञात्वा रजीवाम्येतेन कर्मणा ॥
स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते ।
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ॥
कुले हि विहितं कर्म देही तं न विमुञ्चति ।
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्मये ॥
द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये ।
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥
कर्मणस्तस्य घोरस् वसुधा निर्णयो भवेत् ।
दाने च सत्यवाक्ये च गुरुशुश्रूणे तथा ।
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥
अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम ।
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता ॥
कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून् ।
जीवानन्यांश्च बहुशस्तत्रकिं प्रतिभाति ते ॥
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम ।
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते ॥
अध्याक्रम् पशूंश्चापि घ्नन्ति वै भक्षयन्ति च ।
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च ।
उदके बहवश्चापि तत्रकिं प्रतिभाति ते ॥
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः ।
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्रकिं प्रतिभाति ते ॥
सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम ।
प्राणिनोऽन्योन्यभक्षाश्च तत्रकिं प्रतिभाति ते ॥
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् ।
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः ।
अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते ॥
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा ।
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम् ॥
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥
अहिंयासां तु निरता यतयो द्विजसत्तम ।
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः ।
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥
सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः ।
सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति ॥
समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि ।
गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः ॥
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु ।
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि
द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥
3-212-1 एतन्मांसविक्रयात्मकम् ॥ 3-212-3 यत्नवानपि न
परिहर्तुं शक्नोमि । विधेः प्राबल्यादित्यर्थः ॥ 3-212-4 शरवन्निमित्तभूता वयं
संधातृकत्कर्ता तु विधिरेवेत्यर्थः ॥ 3-212-6 अन्नाद्यभूताः अन्नं च तदद्यं च
भोग्यं भक्ष्यं चेत्यर्थः ॥ 3-212-15 यज्ञियमांसभुजोऽपि ऋतुगामिनो
ब्रह्मचर्यमिव औपचारिकममांसाशित्वमिति भावः ॥ 3-212-20 द्रष्टव्या तु
भवेत्प्रज्ञा क्रूरे कर्मणि वर्तता इति झ. पाठः ।