अध्यायः 220
मार्कण्डेयेन युधिष्ठिरंप्रत्याङ्गिरसोपाख्यानकथनारम्भः ॥ 1 ॥
अग्ङिरसःपुत्रस्य बृहस्पतेर्देवैरङ्गिरसो वचनाद्गुरुत्वेन स्वीकरणम् ॥ 2 ॥
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् ।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा ।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ॥
अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु ।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् ।
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च ॥
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम ।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥
मार्कण्डेय उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥
यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत् ।
संतापयंश्च प्रभया नाशयंस्तिमिरावलिम् ॥
पुराङ्गिरा महाबाहो चचार तप उत्तमम् ।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् ।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ॥
तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा ।
भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान् ॥
अथ संचिन्तयामास भगवान्हव्यवाहनः ।
अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः ॥
अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः ।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥
त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः ।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ॥
अग्निरुवाच ।
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः ।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥
निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव ।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥
अङ्गिरा उवाच ।
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः ।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥
मार्कण्डेय उवाच ।
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत् ।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम् ।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥
स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत् ।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ॥
तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् ।
कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह ॥
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि
विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥
3-220-13 संस्थानचारिषु स्थावरजंगमेषु । सम्यक् स्थानं
गतिनिवृत्तिर्येषु चरणशीलेषु चेति योगात् ॥ 3-220-16 प्राजापत्यस्तथैकत इति क.
थ. ध. पाठः ॥ 3-220-20 प्रत्यगृह्णन् अङ्गिरसो वचः अयं भवतां गुरुरिति
अङ्गीकृतवन्तः ॥ 3-220-21 यातान्नानात्वं ब्राह्मणेष्वपि इति थ. पाठः ॥