अध्यायः 221

मार्कण्डेयेनाग्नीनामुत्पत्त्यादिकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह ।
तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु ॥
बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः ।
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥
प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत् ।
देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता ॥
भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत् ।
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता ॥
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता ॥
यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते ।
एकानकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता ॥
पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती ।
षष्ठीम्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ॥
महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती ।
महामतीति विख्याता सप्तमी कथ्यते सुता ॥
बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी ।
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥
आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते ।
सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः ॥
चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत् ।
दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान् ॥
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा ।
अग्नितस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे ।
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥
पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम् ।
भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः ॥
तिस्रः कन्या भवन्त्यन्या यासां स भरत पतिः ।
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका ॥
भारतो भरतस्याग्नेः पावकस्तु प्रजायते ।
महानत्यर्थमहितस्तथा भरतसत्तम ॥
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः ।
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥
हविषा यो द्वितीयेन सोमेन सह युज्यते ।
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् ।
आग्नेयमनयन्मिथ्यं मिथ्यो नामैव कथ्यते ॥
यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया ।
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् ।
विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु ॥
अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् ।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः ।
तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः ॥
यस्तु विश्वस् जगतो बुद्धिमाक्रम्य तिष्ठति ।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥
अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम् ।
स यज्ञे विश्वभुङ्वाम सर्वलोकेषु भारत ॥
ब्रह्मचारी यतात्मा च सततं विपुलप्रभः ।
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया ।
तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः ॥
बडबाग्निः पिबत्यम्भो योसौ परमदारुणः ।
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः ॥
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते ।
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः ॥
यः प्रशान्तेषु भूतेषु आविर्भवति पावकः ।
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति । त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन ।
अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः ।
समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥
उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः । महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकविंसत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥

3-221-1 तस्यापि वसुधा भार्या इति ट. ध. पाठः ॥ 3-221-2 बृहत्तेजा बृहन्मना इति क. ध. पाठः ॥ 3-221-10 हविषाद्यं विधीयते इति झ. पाठः ॥ 3-221-17 वीरस्य पिण्डदा इतिझ. पाठः ॥