अध्यायः 018
प्रद्युम्ने साल्वबाणाभिहत्या मूर्च्छिते सारथिना रणाङ्गणादन्यतो रथयापनम् ॥ 1 ॥ ततः प्रतिबुद्धेन प्रद्युम्नेन सारधिं प्रति सविषादोक्तिः ॥ 2 ॥
वासुदेव उवाच ।
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे ।
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे ॥
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः ।
प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत् ॥
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा ॥
नातिदूरापयाते तु रथे रथवरप्रणुत् ।
धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम् ॥
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे ।
विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥
सौतिरुवाच ।
जानार्दने न मे मोहो नापि मां भयमाविशत् ।
अतिभारं तु ते मन्ये साल्वं केशवनन्दन ॥
सोभियाति शनैर्वीर बलवानेष पापकृत् ।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम् ।
रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम् ॥
एकश्चासि महाबाहो बहवश्चापि दानवाः ।
न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा ॥
वासुदेव उवाच ।
एवं ब्रुवति सूते तु तदा मकरकेतुमान् ।
उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः ॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन ।
न्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥
न स वृष्णिकुले जातो यो वै त्यजति संगरम् ।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च ।
विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा ॥
त्वं च सूतकुले जातो विदितः सूतकर्मणि ।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।
अपयानं पुन सौते मैवं कार्षीः कथंचन ॥
अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम् ।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः ।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥
किं वक्ष्यतिशिनेर्नप्ता रणसिंहो महारथः ।
अपयातं रणात्सूत साम्बश्च समितिंजयः ॥
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥
शूरं संभावितं शान्तं नित्यं पुरुषमानिनम् ।
स्त्रियश्च वृष्णिवीराणां किं मांवक्ष्यन्ति संगताः ॥
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥
धिग्वाचा परिहासोपि मम वा मद्विधस्य वा ।
मृत्युनाऽभ्यधिकः सौते स त्वं माव्यपयाः पुनः ॥
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।
यज्ञं बारतसिंहस्य न हि शक्योऽद्यमर्षितुम् ।
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।
साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः ।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथं ॥
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहं ॥
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।
त्वयाऽपनीती विवशो न जीवेयं कथंचन ॥
संनिवर्त रथेनाशु पुनर्दारुकनन्दन ।
न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥
न जीवितमहं सौते बहु मन्ये कथंचन ।
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥
कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम् ।
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥
अयुक्तं तु मया त्यक्तुं संग्रामं दारुकात्मज ।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥
इति श्रीमन्महाभारते अरण्यपर्णणि अर्जुनाभिगमनपर्वणि अष्टादशोऽध्यायः ॥ 19 ॥
3-18-2 परे च मुदिता भृशम् । इति झ. पाठः ॥ 3-18-11 रथं पुनः इति झ. पाठः ॥ 3-18-19 शिनेर्नप्ता सात्यकिः ॥