अध्यायः 228

षडृषिभिर्लोकापवादभयात्स्वपत्नीनां परित्यागः ॥ 1 ॥ विश्वामित्रेण कुमारस्य जातकर्मादिना संस्करणम् ॥ 2 ॥ स्कन्दपराक्रमासहिष्णुना शक्रेण स्कन्देन सहाऽऽयोधनम् ॥ 3 ॥ इन्द्रवज्राभिहतात्स्कन्दस्य दक्षिणपार्श्वाद्विशास्वस्य तथा कुमाराणां कन्यानां च समुद्भवः ॥ 4 ॥ स्कन्दाद्भीतेनेन्द्रेण तेन सह संधानम् ॥ 5 ॥

मार्कण्डेय उवाच ।
तस्मिञ्जाते महासत्त्वे महासेने महाबले ।
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ॥ 1 ॥
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च ।
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् ॥
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः ।
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः । तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ।
संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः ।
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥
न तु तत्स्वाहया कर्म कृतंजानाति वै जनः ॥
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति ।
उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् । तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम् ।
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ॥
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ।
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः ॥
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः । पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात् ।
तत्तेन निखिलं सर्वमवबुध्य यथातथम् ॥
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः ।
स्तवं दिव्यं संप्रचक्रे महासेनस् चापि सः ॥
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश ।
जातकर्मादिकास्तस् क्रियाश्चक्रे महामुनिः ॥
पड्वक्रस्य तु मांहात्म्यं कुक्कुटस्य तु साधनम् ।
शक्त्या देव्याः साधनं च तथा पारिषदामषि ॥
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै ।
तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः ॥
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः । अब्रवीच्च मुनीन्सर्वाननापराध्यन्ति वै स्त्रियः ।
श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन् ॥
मार्कण्डेय उवाच ।
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन् ।
अविषह्यं वलं स्कन्दं जहि शक्राशु माचिर् ॥
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति ।
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबला ॥
स तानुवाच व्यथितो वालोऽयं सुमहाबलः । स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ।
[न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते ॥
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभासे ।] सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ॥
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ।
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ॥
अशक्योऽयंविचिन्त्यैवं तमेव शरणं ययुः ।
ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतंजगत् ॥
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः ।
[तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः] ॥
ताः संपूज्य महासेनःकामांश्चासां प्रदाय सः ।
अपश्यदग्निमायान्तं पितरं बलिनां बली ॥
स तु संपूजितस्तेन सह मातृगणेन ह ।
परिवार्य महासेनं रक्षमाणः स्थितः शिवः ॥
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा ।
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत ॥
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना ।
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥
अग्निर्भूत्वा नैगमेयश्छागवक्रो बहुप्रजः ।
रमयामास शैलस्तं बालं क्रीडनकैरिव ॥
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा ।
हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः ॥
एते चान्ये च बहवो घोरास्त्रिदिववासिनः ।
परिवार्य महासेनं स्थिता मातृगणैः सह ॥
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः ।
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥
आदाय वज्रं बवान्सर्वैर्देवगणैर्वृतः ।
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥
`इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम् ।
विस्मितश्चाभवद्राजन्देवानीकमचोदयत् ॥
उग्रं तं च महानादं देवानीकं महाप्रभम् ।
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्' ॥
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम् ।
विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात् ॥
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः ।
संहर्पयन्देवसेनां जिघांसुः पावकात्मजम् ॥
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः ।
समीपमथ संप्राप्तो वह्निपुत्रस्य वासवः ॥
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः ।
गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा ॥
तस्य शब्देन महता समुद्धूतोदधिप्रभम् ।
वभ्राम तत्रतत्रैव दैवसैन्यमचेतनम् ॥
जिधांसूनुपसंप्राप्तान्देवान्दृष्ट्वा सपावकिः ।
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥
अदहद्देवसैन्यानि वेपमानानि भूतले ॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः ।
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् ।
देवा वज्रधरं त्यक्त्वाततः शानतिमुपागताः ॥
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत् ॥
तद्विसृष्टं जघानाशु पर्श्वं स्कन्दस्य दक्षिणम् ।
विभेद च महाराज पार्श्वं तस्य महात्मनः ॥
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः ।
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः ॥
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् ।
भयादिनद्रस्तुत तं स्कन्दं प्राञ्जलिः शरणं गतः ॥
तस्याभयंददौ स्कन्दः सहसैन्यस् सत्तम ।
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥
स्कन्दपारिषदान्धोराञ्छृणुष्वाद्भुतदर्शनान् । वज्रप्हहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ।
ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः ॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस् महाबलाः ॥
कुमारान्स विशखं च पुत्रत्वे समकल्पयत् ।
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा ॥
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः ।
मातृणां प्रेषितानां च भद्रशाखश्चकोमलैः ॥
ततः कुमारं संजातं स्कन्दमाहुर्जना भुवि ।
रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः ॥
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ।
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ॥
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषयन् ॥
भवेम सर्वलोकस्य मातरो वयमुत्तमाः ।
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः ।
शिवाश्चैवाशिवाश्चैव पुनःपुनःरुदारधीः ॥
`अग्निर्भूत्वा ततश्चैनं छागवक्रो बहुप्रजः । रमयामास शैलस्थं बलं क्रीडनकैरिव' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥

3-228-2 विपरीतं वैरम् । द्वन्द्वानि अतिशीतात्युष्णादीनि ॥ 3-228-15 श्रुत्वा तु ध्रुत्वापि । सर्वतः लोकापवादभयाद्रामवत्पत्नीस्त्यक्तवन्त इत्यर्थः । अथाव्रवीत्तान्सप्तर्षीन्युष्मत्पत्नीष्वयं शिशुः । षट्रसु जातोहुवहात्ते चाग्रेस्त्वग्रतोल्यजन् । इति ध. पाठः ॥ 3-228-46 वज्रस्य विशनात् बाहोराखननाच्चविशाख इत्यर्थः ॥ 3-228-51 कुमारास्ते=पितृत्वे इति झ. पाठः ॥ 3-228-53 ततः कुमारपितरमिति झ. पाठः ॥